________________
६८
दारुयन्त्रस्थपाञ्चालीनृत्यतुल्याः प्रवृत्तयः । योगिनो नैव बाधायै ज्ञानिनो लोकवर्तिनः ||३३|| प्रारब्धादृष्टजनितात् सामायिकविवेकतः । क्रियापि ज्ञानिनो व्यक्तामौचितीं नातिवर्तते ॥ ३४ ॥ संसारे निवसन् स्वार्थसज्ज : कज्जलवेश्मनि । लिप्यते निखिलो लोको ज्ञानसिद्धो न लिप्यते ॥। ३५ ।। नाहं पुद्गलभावानां कर्ता कारयिता च न । नानुमन्तापि चेत्यात्मज्ञानवान् लिप्यते कथम् ॥ ३६ ॥ लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव ध्यायन्निति न लिप्यते ॥ ३७ ॥ लिप्तता ज्ञानसम्पातप्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य क्रिया सर्वोपयुज्यते ॥ ३८ ॥ तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते । भावनाज्ञानसम्पन्नो निष्क्रियोऽपि न लिप्यते ॥ ३९ ॥ समलं निर्मलं चेदमिति द्वैतं यदागतम् । अद्वैतं निर्मलं ब्रह्म तदैकमवशिष्यते ॥ ४० ॥ महासामा - न्यरूपेऽस्मिन्मज्जन्ति नयजा भिदाः । समुद्र इव कल्लोलाः पवनोन्माथनिर्मिताः ॥ ४१ ॥ षद्रव्यैकात्म्यसंस्पर्शि सत्सामान्यं हि यद्यपि । परस्यानुपयोगित्वात् स्वविश्रान्तं तथापि तत् ॥ ४२ ॥ नयेन सङ्ग्रहेणैवमृजुसूत्रोपजीविना । सच्चिदानन्दरूपत्वं ब्रह्मणो व्यवतिष्ठते ।। ४३ ।। सत्त्वचित्त्वादिधर्माणां भेदाभेदविचारणे । न चार्थोऽयं विशीर्येत निर्विकल्पप्रसिद्धितः ।। ४४ ।। योगजानुभवारूढे सन्मात्रे निर्विकल्पके । विकल्पौघासहिष्णुत्वं भूषणं न तु दूषणम् ।। ४५ ।। यो ह्याख्यातुमशक्योऽपि प्रत्याख्यातु न शक्यते । प्राज्ञैर्न दूषणीयोऽर्थः स माधुर्यविशेषवत् ॥ ४६ ॥ कुमारी न यथा वेत्ति सुखं दयितभोगजम् । न जानाति तथा लोको योगिनां ज्ञानजं सुखम् ॥ ४७॥ अत्यन्तपक्कबोघाय समाधिर्निर्विकल्पकः । वाच्योऽयं नार्धविज्ञस्य तथा चोक्तं परैरपि ॥ ४८ ॥ आदौ शमदमप्रायैर्गणैः शिष्यं प्रबोधयेत् । पश्चात् सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ।। ४९ ।। अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानरकजा
I