________________
मात्मनः । प्रतीयते यदश्रान्तं तदेव ज्ञानमुत्तमम् ॥ १५ ॥ शुभोपयोगरूपोऽयं समाधिः सविकल्पकः । शुद्धोपयोगरूपस्तु निर्विकल्पस्तदेकदृक् ॥ १६ ॥ आद्यः सालम्बनो नाम योगोऽनालम्बनः परः। छायाया दर्पणाभावे मुखविश्रान्तिसंनिभः ॥ १७ ॥ यदृश्यं यच निर्वाच्यं मननीयं यद्भुवि । तद्रूपं परसंश्लिष्टं न शुद्धद्रव्यलक्षणम् ॥ १८ ॥ अपदस्य पदं नास्तीत्युपक्रम्यागमे ततः । उपाधिमात्रव्यावृत्त्या प्रोक्त शुद्धात्मलक्षणम् ॥१९॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । इति श्रुतिरपि व्यक्तमेतदर्थानुभाषिणी ॥२०॥ अतीन्द्रियं परं ब्रह्म विशुद्धानुभवं विना । शास्त्रयुक्तिशतेनापि नैव गम्यं कदाचन ॥ २१ ॥ केषां न कल्पना दर्वी शास्त्रक्षीरानगाहिनी। विरलास्तद्रसास्वादविदोऽनुभवजिह्वया ।। २२ ॥ पश्यतु ब्रह्मनिद्वंद्वं निद्वंद्वानुभवं विना । कथं लिपिमयी दृष्टिः वाङ्मयी वा मनोमयी ॥ २३ ॥ न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ । कल्पनाशिल्पविश्रान्तेस्तुर्यैवानुभवो दशा ॥२४॥ अधिगत्याखिलं शब्दब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यपरं ब्रह्मानुभवैरधिगच्छति ॥२५॥ ये पर्यायेषु निरतास्ते ह्यन्यसमयस्थिताः । आत्मस्वभावनिष्ठानां ध्रुवा स्वसमयस्थितिः ॥ २६ ॥ आवापोद्वापविश्रान्तियत्राशुद्धनयस्य तत् । शुद्धानुभवसंवेद्यस्वरूपं परमात्मनः ॥ २७ ॥ गुणस्थानानि यावन्ति यावन्त्यश्चापि मार्गणाः । तदन्यतरसं लेषो नैवातः परमात्मनः ॥ ३८ ॥ कर्मोपाधिकृतान् भावान् य आत्मन्यध्यवस्यति । तेन स्वाभाविक रूपं न बुद्ध परमात्मनः ॥२९॥ यथा भृत्यैः कृतं युद्ध स्वामिन्येवोपचर्यते । शुद्धात्मन्यविवेकैन कर्मस्कन्धोर्जितं तथा ॥ ३०॥ मुषितत्वं यथा पान्थगतं पथ्युपचर्यते । तथा व्यवहरत्यज्ञश्चिद्रूपे कर्मविक्रियाम् ॥ ३१ ॥ स्वत एव समायान्ति कर्माण्यारब्धशक्तितः । एकक्षेत्रावगाहेन ज्ञानी तत्र न दोषभाक् ॥३२॥