________________
इति श्रीपण्डितनयविजयगणिशिष्यपण्डितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे शास्त्रयोग
___ शुध्धिनामा प्रथमोऽधिकारः समाप्तः ॥ १॥
॥ दिशा दर्शितया शास्त्रैर्गच्छन्नच्छमतिः पथि । ज्ञानयोगं प्रयुञ्जीत तद्विशेपोपलव्धये ॥ १॥ योगजाहणुजनितः स तु प्रातिभसंज्ञितः । सन्ध्येव दिनरात्रिभ्यां केवलश्रुतयोः पृथक् ।।२।। पदमात्रं हि नान्वेति शास्त्र दिग्दर्शनोत्तरम । ज्ञानयोगो मुनेः पावमाकैवल्यं न मुञ्चति ।। ३ ॥ तत्त्वतो ब्रह्मणः शास्त्र लक्षक न तु दर्शकम् । न चाहणात्मतत्त्वस्य दृष्टभ्रान्तिनिवतेते ॥४॥ तेनात्मदर्शनाकाझी ज्ञानेनान्तमखो भवेत् । द्रष्टुगात्मता मुक्तिदृश्यैकात्म्यं भवभ्रमः ॥ ५ ॥ आत्मज्ञाने मुनिर्मग्नः सर्व पुद्गलविभ्रमम् । महेन्द्रजालबद्वेत्ति नैव तत्रानुरज्यते ॥६॥ आस्वादिता सुमधुरा येन ज्ञानरतिः सुधा। न लगत्येव तच्चतो विपयेपु विषेष्विव ॥७॥ सत्तत्त्वचिन्तया यस्याभिसमन्वागता इमे । आत्मवान् ज्ञानवान् वेदधर्मवान ब्रह्मवांश्च सः ।। ८॥ विपयान साधकः पूर्वमनिष्ठत्वधिया त्यजेत्। न त्यजेन्न च गृहणीयात् सिद्धो विन्द्यात् स तत्त्वतः ॥ ९॥ योगारम्भदशास्थस्य दुःखमन्तर्बहिः सुखम् । सुखमन्तर्बहिर्दःखं सिद्धयोगस्य तु ध्रुवम ॥ १० ॥ प्रकाशशक्त्त्या यद्रूपमात्मनो ज्ञानमुच्यते। सुखं स्वरूपविश्रान्तिशक्त्त्या वाच्यं तदेव तु ॥ ११ ॥ सर्व परवशं दुःखं सर्वमात्मवशं सुखम । एतदुक्त समासेन लक्षणं सुखदुःखयो । १२ ।। ज्ञानमग्नस्य यच्छम तद्वक्तं नैव पार्यते । नोपमेयं प्रियाश्लेपैनापि तचन्दनद्रवैः ।।१३।। तेजोलेश्याविवृद्धिर्या पर्यायक्रमवृद्धितः । भापिता भगवत्यादौ सेत्थम्भूतस्य युज्यते ॥१४॥ चिन्मात्रलक्षणेनान्यव्यतिरिक्तत्व