________________
भूपिते । यथा जनानां माध्यस्थ्यं दुर्नयार्थे तथा मुनेः ॥ ६३ ॥ दूषयेदज्ञ एवोच्चैः स्याद्वादं न तु पण्डितः । अज्ञप्रलापे सुज्ञानां न द्वेषः करुणैव तु ॥६४॥ त्रिविधं ज्ञानमाख्यातं श्रुतं चिन्ता च भावना । आद्यं कोष्ठगबीजाभं वाक्यार्थविषयं मतम् ॥६५|| महावाक्यार्थजं यत्त सूक्ष्मयुक्तिशतान्वितम् । तद्वितीयं जले तैलबिन्दुरीत्या प्रसृत्वरम् ॥६६।। ऐदम्पर्यगतं यच्च विध्यादौ यत्नपच्च यत् । तृतीयं तद्विशुध्वोच्चजात्यरत्नविभानिभम् ॥६०॥ आधे ज्ञाने मनाक् पुंसस्तद्रागादर्शनग्रहः । द्वितीये न भवत्येप चिन्तायोगात्कदाचन ॥६॥ चारिसञ्जीविनीचारकारकज्ञाततोऽन्तिमे । सर्वत्रैव हिता वृत्तिर्गाम्भीर्यात्तत्त्वदर्शिनः ॥६९॥ तेन स्याद्वादमालम्ब्य सर्वदर्शनतुल्यताम् । मोक्षोद्देशावि(द्वि?)शेषेण यः पश्यति स शास्त्रवित् ॥७०॥ माध्यस्थ्यमेव शास्त्रार्थो येन तच्चारु सिध्यति । स एव धर्मवादः स्यादन्यद्वालिशवल्गनम् ॥७१।। पुत्रदारादिसंसारो धनिनां मूढचेतसाम् । पण्डितानां तु संसार: शास्त्रमध्यात्मवजितम् ।।७२॥ माध्यस्थ्यसहितं लेकपदज्ञानभपि प्रमा । शास्त्रकोटिवृथैवान्या तथा चोक्त महात्मना ॥७३॥ 1 वादांश्च प्रतिवादांश्च वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ॥ ७४ ॥
इति यतिवदनात्पदानि बुवा प्रशमविवेचनसंवराभिधानि । प्रदलितदुरितः क्षणाच्चिलातितनय इह त्रिदशालयं जगाम ॥७५|| नचानेकान्तार्थावगमरहितस्यास्य फलितम् , कथं माध्यस्थ्येन स्फुटमिति विधेयं भ्रमपदम् । समाधेरव्यक्ताद्यदभिदधति व्यक्तसदृशम् , फलं योगाचार्या ध्रुधमभिनिवेशे विगलिते ॥ ७६ ॥ विशेपादोघाद्वा सपदि तदनेकान्तसमये, समुन्मीलद्भक्तिर्भवति य इहा. ध्यात्मविशदः । भृशं धीरोदात्तप्रियतमगुणोजागररुचिर्यशःश्रीस्तस्थाइ त्यजति न कदापि प्रणयिनी ॥७७।।