________________
सत्त्वाद्येविरुद्धैगुम्फितं गुणैः । साङ्घयः सङ्ख्थावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥४५॥ विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥४६॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि नानेकान्तं प्रतिक्षिपेत ॥४७॥ प्रत्यक्षं मितिमात्रंशे मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदन्नेक नानेकान्तं प्रतिक्षिपेत् ॥४८॥ जातिव्यक्त्यात्मकं वस्तु वदन्ननुभवोचितम् । भट्टो वापि मुरारिर्वा नानेकान्तं प्रतिक्षिपेत् ।। ४९ ।। अबद्ध परमार्थेन बद्ध च व्यवहारतः । वाणो ब्रह्मवेदान्ती नानेकान्तं प्रतिक्षिपेत् ॥५०॥ ब्रवाणा भिन्नभिन्नार्थान्नयभेदव्यपेक्षया । प्रतिक्षिपेयु! वेदाः स्याद्वादं सार्वतान्त्रिकम् ॥५१॥ विमतिः सम्मतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥५२॥ तेनानेकान्तसूत्रं यद्यद्वा सूत्रं नयात्मकम् । तदेव तापशुद्ध स्यान्न तु दुर्नयसंज्ञितम् ॥५३॥ नित्यै कान्ते न हिंसादि तत्पर्यायापरिक्षयात् । मनःसंयोगनाशादौ व्यापारानुपलम्भतः ॥ ५४ ॥ बुद्धिलेपोऽपि को नित्यनिर्लेपात्मव्यवस्थितौ । सामानाधिकरण्येन बन्धमोक्षौ हि सङ्गतौ ॥ ५५ ॥ अनित्यैकान्तपक्षेऽपि हिंसादिकमसङ्गतम् । स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः ॥५६॥ आनन्तयें क्षणानां तु न हिंसादिनियामकम् । विशेषादर्शनात्तस्य बुद्धलुब्धकयोमिथः ।।५७॥ सङ्क्लेशेन विशेषश्चेदानन्तर्यमपार्थकम् । न हि तेनापि सक्लिष्टमध्ये भेदो विधीयते ।।५८॥ मनोवाकाययोगानां भेदादेवं क्रियाभिदा । समग्रैव विशीर्येतेत्येतदन्यत्र चर्चितम् ॥ ५९ ॥ नित्यानित्याद्यनेकान्तशास्त्र तस्माद्विशिष्यते । तदृष्ठयैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते ॥६०॥ यस्य सर्वत्र समता नयेषु तनयेष्विव । तस्यानेकान्तवादस्य क न्यूनाधिकशेमुषी ॥६१।। स्वतन्त्रास्तु नयास्तस्य नांशाः किं तु प्रकल्पिताः । रागद्वेषौ कथं तस्य दूषणेऽपि च भूषणे ॥६२॥ अर्थे महेन्द्रजालस्य दूषितेऽपि च