________________
६३
वेदान्तविधिशेषत्वमतः कर्मविधेर्हितम् । भिन्नात्मदर्शकाः शेषा वेदान्ता एव कर्मणः ।। २७ ।। कर्मणां निरवद्यानां चित्तशोधकतां परम् । साङ्ख्याचार्या अपीच्छन्तीत्यास्तामेषोऽत्र विस्तरः || २० || यत्र सर्वनयालम्बिविचारप्रवाग्निना । तात्पर्यश्यामिका न स्यात्तच्छात्र तापशुध्धिमत् ॥ २९ ॥ यथाह सोमिलप्रश्ने जिनः स्याद्वाद सिद्धये । द्रव्यार्थादहमेकोऽस्मि दृग्ज्ञानार्थादुभावपि ॥ ३० ॥ अक्षयश्चाव्ययश्चास्मि प्रदेशार्थविचारतः । अनेकभूतभावात्मा पर्यायार्थे परिग्रहात् ||३१|| द्वयोरेकत्वबुद्धयापि यथा द्वित्वं न गच्छति । नयैकान्तधिय - "येवमनेकान्तो न गच्छति ||३२|| सामग्र्येण न मानं स्याद् द्वयोरेकत्त्रधर्यथा । तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥३३॥ एकदेशेन चैकत्वधीर्द्वयोः स्याद्यथा प्रमा । तथा वस्तुनि वस्त्वंश - द्विज्ञेया नयात्मिका ||३४|| इत्थं च संशयत्वं यन्नयानां भाषते परः । तदपास्तं विलंबानां प्रत्येकं न नयेषु यत् ||३५|| सामग्र्येण द्वयाऽप्यविरोधे समुच्चयः । विरोधे दुर्नयत्राताः स्वशस्त्रेण स्वयं हुताः ||३६|| कथं विप्रतिषिद्वानां न विरोधः समुच्चये । अपेक्षाभेदतो हन्त चैव विप्रतिषिद्धता ||३७|| भिन्नापेक्षा यथैकत्र पितृपुत्रादिकल्पना । नित्यानित्याद्यनेकान्तस्तथैव न विरोत्स्यते ||३८|| व्यापके सत्यनेकान्ते स्वरूपपररूपयोः । आनेकान्त्यान्न कुत्रापि निर्णीतिरिति चेन्मतिः ||३९|| अव्याप्यवृत्तिधर्माणां यथावच्छेदकाश्रया । नापि ततः परावृत्तिस्तत् किं नात्र तथेक्ष्यते ॥ ४० ॥ आनैगमान्त्यभेदं तत्परावृत्तावपि स्फुटम् । अभिप्रेताश्रयेणैव निर्णयो व्यवहारकः ||४१ || अनेकान्ते ऽप्यनेकान्तादनिष्ठैत्रमपाकृता । नयसूमेक्षिका प्रान्ते विश्रान्तेः सुलभत्वतः || ४२ || आत्माश्रयादयोऽप्यत्र सावकाशा न कर्हिचित् । ते हि प्रमाणसिद्धार्थात् प्रकृत्यैव पराङ्मुखाः ||४३|| उत्पन्नं दधिभावेन नष्टं दुग्धतया पयः । गोरसत्वात् स्थिरं जानन् स्याद्वादद्विड् जनोऽपि कः ॥ ४४ ॥ इच्छन् प्रधानं