________________
अन्तरा केवलज्ञानं छद्मस्थाः खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्रज्ञानं तद्वयवहारकृत् ॥ १० ॥ शुध्धोछाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा तस्य पदस्पर्शनिषेधनम् ॥११॥ शासनात् त्राणशक्तेश्च बुधैः शास्त्र निरुच्यते । वचनं वीतरागस्य तञ्च नान्यस्य कस्यचित् ।।१२।। वीतरागोऽनृतं नैव ब्रयात्तद्धत्वभावतः। यस्तद्वाक्येष्वनाश्वासस्तन्महामोहनम्भितम् ॥ १३ ।। शास्त्रे पुरस्कृते तस्माद्वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन्नियमात् सर्वसिद्धयः ॥१४॥ एनं केचित् समापत्तिं वदन्त्यन्ये ध्रुवं पदम । प्रशान्तवाहितामन्ये विसभागक्षयं परे ॥१५|| चर्भचक्षुभृतः सर्वे देवाचावधिचक्षुषः। सर्वतश्चक्षुषः सिद्धा योगिनः शास्त्रचक्षुषः ॥१६॥ परीक्षन्त कषच्छेदतापैः स्वर्ण यथा जनाः। शारोऽपि वर्णिकाशुद्धि परीक्षन्तां तथा बुधाः ॥१७॥ विधयः प्रतिषेधाश्च भूयांसो यत्र वर्णिताः । एकाधिकारा दृश्यन्ते कषशुधि वदन्ति ताम् ।। १८ ।। सिध्धान्तेषु यथा ध्यानाध्ययनादिविधिवजाः । हिंसादीनां निषेधाश्च भूयांसो मोक्षगोचराः ॥ १९ ॥ अर्थकामविमिश्रं यद्यच्च क्लृप्तकथाविलम् । आनुषङ्गिकमोक्षार्थं यन्न तत् कषशुध्धिमत् ॥ २० ॥ विधीनां च निषेधानां योगक्षेमकरी क्रिया । वर्ण्यते यत्र सर्वत्र तच्छास्त्र छेदशुद्धिमत् ॥२१॥ कायिकाद्यपि कुर्वीत गुप्तश्च समितो मुनिः । कृत्ये ज्यायसि किं वाच्यमित्युक्त समये यथा ॥ २२ ॥ अन्यार्थ किश्चिदुत्सृष्टं यत्रान्यार्थमपोह्यते । दुविधिप्रतिषेधं तन्न शास्त्र छेदशुद्धिमत् ॥ २३ ॥ निषिद्धस्य विधानेऽपि हिंसादेभूतिकामिभिः ॥ दाहस्येव न सद्वैद्यैर्याति प्रकृतिदुष्टता ॥ २४ ॥ हिंसा भावकृतो दोषो दाहस्तु न तथेति चेत् । भूत्यर्थं तद्विधानेऽपि भावदोषः कथं गतः ॥ २५ ॥ वेदोक्तत्वान्मनःशुद्धया कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छन्तः श्येनयागं त्यजन्ति किम् ॥ २६ ॥