________________
सणेणं । ववहारमयमेरं । एसोऽवि तत्तंगं, पवित्तिविसोहणेण, अणेगंतसिध्धीओ, निच्छयंगभावेण, परिसुद्धो उ केवलं ।
एसा आणा इह भगवओ समंतभद्दा तिकोडिपरिसुद्धीए अपुणबंधगा इगम्मा । एअप्पिअत्तं खलु इत्थ लिंगं ओचित्तपवित्तिविन्ने संवेगसाहगं निमा। न एसा अन्नेसिं देआ । लिंगविवज्जयाओ तप्परिणा। तयणुग्गहट्ठयाए आमकुंभोदगनासनाएणं । एसा करुणत्ति वुच्चइ, एगंतपरिसुध्धा अविराहणाफला तिलोगनाहबहु माणेणं निस्सेअससाहिगत्ति ।। इति पव्वज्जाफलसुत्तं ॥ ५॥ समाप्तमिदं पञ्चसूत्रं
चिरन्तनाचार्यविरचितम् ।
न्यायविशा० महोपा० श्रीयशोविजयविरचिताऽध्यात्मोपनिषत्
॥ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयम्भुवम् । अध्यात्मोपनिपन्नामा ग्रन्थोऽस्माभिर्विधीयते ॥ १ ॥ आत्मानमधिकृत्य स्याद्यः पश्चाचारचारिमा । शब्दयोगार्थनिपुणास्तदध्यात्म प्रचक्षते ॥ २ ॥ रूव्यथेनिपुणास्त्वाहुश्चित्तं मैत्र्यादिवासितम् । अध्यात्म निर्मलं बाह्यव्यवहारोपबंहितम् ॥ ३ ॥ एवम्भूतनये ज्ञेयः प्रथमोऽर्थोऽत्र कोविदैः । यथायथं द्वितीयोऽर्थो व्यवहार सूत्रयोः ॥ ४ ॥ गलनयकृतभ्रान्तियः स्याद्विश्रान्तिसम्मुखः । स्याद्वादविशदालोकः स एवाध्यात्मभाजनम् ॥ ५ ॥ मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमनःकपिः ॥६॥ अनर्थायैव नार्थाय जातिप्रायाश्च युक्तयः । हस्ती हन्तीति वचने प्राप्ताप्राप्तविकल्पवत् ॥ ७॥ ज्ञायेरन हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ८ ॥ आगमश्वोपपत्तिश्च सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥९॥