________________
नोदेष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुपलब्धेः । नोदगाद्भरणिर्मु हूर्तात्प्राक् तत एव । नास्त्यत्र समतुलायामुन्नामोऽवनामानुपलब्धः।। विरुद्धकार्यकारणस्वभावानुपलब्धिविधौ सम्भवति । यथाम्मिन प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धः। अम्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् । अनेकान्तात्मकं वस्तु एकान्त स्वरूपानुपलब्धेः । परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयमअभूदत्र चक्रे शिवकः स्थासात। कार्यकार्यमविरुद्धकार्यापलब्धौयथा नास्त्यत्र गुहायां मृगक्रीडनं मृगारिशब्दनात् । कारणविरुद्धकाय विरुद्धकार्यापलब्धौ यथा (नासौ रोमहर्षादिविशेपवान समीपवतिपावकविशेषात् ) ॥३॥
आप्तवचनाज्जातमर्थज्ञानमागम :, उपचारादाप्रवचनं च । यथास्त्यत्र निधिः, सन्ति मेर्वादयः पदार्थाः। अभिधेयं वस्तु यथा वस्थितं यो जानीते यथाज्ञातं चाभिधत्ते स आप्तः; जनकतीथकरादिः । सहजसामर्थ्यसङ्केताभ्यामर्थबोधनिबन्धनं शब्दः ॥४॥ ____सामान्यविशेषाद्यर्थस्तस्य विषयः अनुवृत्तव्यावृत्तप्रत्ययगो चरत्वात , पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेणार्थक्रियो पपत्ते च । सामान्यं द्विधा-तिर्यगूर्खताभेदात् । सदृशपरिणामस्तिर्यक. खण्डमुण्डादिषु गोत्ववत् । परापरविवर्तव्यापि द्रव्यमूर्खता, मृदिय स्थासादिषु ॥ विशेषश्च पर्यायव्यतिरेकभेदात् । एकस्मिन् द्रव्ये क्रमभाविनः (परिणामाः) पर्यायाः-आत्मनि हर्पविपादादिवत । (अर्थान्तरगतो) विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ।।५।।
__ अज्ञाननिवृत्तिानोपादानोपेक्षाश्च फलम् , प्रमाणाद्भिन्नमभिन्न च । यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेक्षते चेति