________________
व्युत्पन्न प्रति हेतुप्रयोगात्तथोपपत्त्यान्यथानुपपत्त्यैव । मन्दमतीस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । दृष्टान्तो द्वेधा अन्वयव्यतिरेकभेदात् । साधनसत्तायां यत्रावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयदृष्टान्तः । साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः । हेतोरुपसंहार उपनयः । प्रतिज्ञायास्तु निगमनम् । एते पक्षादयः पञ्चावयवाः कीर्यन्ते । स हेतुर्द्विधा-उपलब्ध्यनुपलधिभेदात् । उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च । अविरुद्धोपल ब्धिविधौ षोढा-व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात्। परिणामी शब्दः कृतकत्वात् , यः कृतकः स परिणामी दृष्टो यथा घटः, कृतकश्चायं तस्मात्परिणामी; यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः, कृतकश्वायम् , तस्मात्परिणामी । अस्त्यत्र देहिनि बुद्धिर्व्यवहारादेः । अस्त्यत्र छाया छत्रात्। उदेष्यति शकटं कृत्तिकोदयात् । उदगाद्भरणिः प्राक्तत एव । अस्त्यत्र मातुलिङ्ग रूपं रसात्।। विरुद्धतदुपलब्धिः प्रतिषेधे तथा ६-'नास्त्यत्र शीतस्पर्श औष्ण्यात् ।
नास्त्यत्र शीतस्पर्टी धूमात् । नास्मिन् शरोरिणि सुखमस्ति हृदयशल्यात् । 'नोदेष्यति मुहूर्ताते शकटं रेवत्युदयात् । 'नोद्गाद्भरणिमुहूर्तात् पूर्व पुष्योदयात् । 'नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् ॥ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा-स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलब्धिभेदात् । नास्त्यत्र भूतले घट उपलब्धिलक्षणप्राप्तत्वे सत्यनुपलब्धः । नास्त्यत्र शिंशपा वृक्षानुपलब्धेः। नास्त्यत्राप्रतिबद्धसामोऽग्निर्धमानुपलब्धेः । नास्त्यत्र धूमोऽनग्नेः।
५