________________
३२
श्रीप्रमाणनयतच्चरहस्यम् ।
स्वपरव्यवसायि ज्ञानं प्रमाणम् । हिताहितप्राप्तिपरिहारसमर्थ हि प्रमाणमतो ज्ञानमेवेदम् । तद्वयवसायस्वभावं समारोपविरुद्धत्वादनुमा (न) वत् । अतस्मिन् तदध्यवसायः समारोपः । स संशयविपर्ययानध्यवसायभेदात्त्रेधा । स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायोऽर्थस्येव तदुन्मुखतया घटमहमात्मना वेति । कर्मवन कर्तृकरणक्रियाप्रतीतिः । को वा तत्प्रतिभासितमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् प्रदीपवत् । तत्प्रामाण्यं स्वतः परतश्च ॥ १ ॥
तत् द्वेधा प्रत्यक्षं च परोक्षं च । स्पष्टं प्रत्यक्षम् । तद्विविधं सांव्यवहारिकं पारमार्थिकं च । आद्यमिन्द्रियानिन्द्रियनिमित्तम । पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षमवध्यादि || २ ||
अस्पष्टं परोक्षम् । स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदम् । संस्कारोद्बोधनिबन्धनं तदित्याकारं स्मरणम् स देवदत्तो यथा । दर्शनस्मरणकारणकं संकलनं प्रत्यभिज्ञानम् - तदेवेद तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि यथा स एवायं देवदत्तः, गोसदृशो गवयः, गोविलक्षणो महिपः, इदमस्माद्दूरम्, वृक्षोऽयमित्यादि । उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनाद्यालम्बनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनं तर्कः - यथाग्नौ सत्येव धूमो भवति, तदभावे न भवत्येवेति । अनुमानं द्विधा स्वार्थं परार्थं च । हेतुग्रहणसम्बन्धस्मरणहेतुकं साध्यविज्ञानं स्वार्थम् । निश्वितान्यथानुपपत्त्येकलक्षणो हेतुः । इमवाधितमसिद्ध साध्यम् । तद्विशिष्टः प्रसिद्ध धर्मी पक्षः । धर्मिणः प्रसिद्धिर्विकल्पप्रमाणोभयैः । विकल्पसिद्धे धर्मिणि सत्तेतरे साध्ये - अस्ति सर्वज्ञो नास्ति खरविषाणम | प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता - अग्निमानयं देशः, परिणामी शब्दो यथा । पक्ष हेतुवचनात्मकं परार्थमनुमानमुपचारात् ।