________________
( स्रग्धरावृत्तद्वयम् ) एवं सद्भावनाभिः सुरभितहृदयाः संशयातीतगीतोनीतस्फीतात्मतत्त्वास्त्वरितमपसरन्मोहनिद्राममत्वाः । गत्त्वा सत्त्वाममत्वातिशयमनुपमां चक्रिशक्राधिकानां
सौख्यानां मक्षु लक्ष्मीम् , परिचितविनयाःस्फारकीर्ति श्रयन्ते १ दुर्ध्यानप्रेतपीडा प्रभवति न मनाकाचिदद्वन्द्वसौख्यस्फातिः प्रीणाति चित्तं प्रसरति परितः सौख्य(म्य?) सौहित्यसिन्धुः । क्षीयन्ते रागरोषप्रभृतिरिपुभटाः, सिद्धिसाम्राज्यलक्ष्मीः स्याद्वश्या यन्महिना विनयशुचिधियो भावनास्ता श्रयध्वम् ॥२॥
(पथ्यावृत्तम् ) श्रीहीरविजयसूरीश्वरशिष्यौ सोदरावभूतां द्वौ । श्रीसोमविजयवाचक-वाचकवरकीर्तिविजयाख्यौ ॥ ३ ॥
(गीतिद्वयम् ) तत्र च कीर्तिविजयवाचकशिष्योपाध्यायविनयविजयेन । शान्तसुधारसनामा संदृष्टो(ब्धो) भावनाप्रबन्धो(बोघो?)ऽयम् ॥४॥ शिखिनयनसिन्धुशशिमितवर्षे हर्षेण गन्धपुरनगरे । श्रीविजयप्रभसूरिप्रसादतो यत्न एष सफलोऽभूत ॥ ५ ॥
( उपजातिवृत्तम् ) यथा विधुः षोडशभिः कलाभिः सम्पूर्णतामेत्य जगत्पुनीते । ग्रन्थस्तथा षोडशभिः प्रकाशैरयं समग्रैः शिवमातनोतु ॥ ६ ॥
( इन्द्रवज्रावृत्तम् ) यावज्जगत्येष सहस्रभानुः पीयूषभानुश्च सदोदयेते । तावत्सतामेतदपि प्रमोदम् , ज्योतिः स्फुरद्वाङ्मयमातनोतु ॥ ७ ॥
'इति समाप्तोऽयं गेयकाव्यमयः श्रीशान्तसुधारसः'