________________
अर्हन्तोऽपि प्राज्यशक्तिस्पृशः किम् धर्मोद्योगं कारयेयुः प्रसह्य । दद्युः शुध्धं किन्तु धर्मोपदेशम् . यत्नुर्वाणा दुस्तरं निस्तरन्ति ।।४।। तस्मादौदासीन्यपीयूषसारम् , वारं वारं हन्त सन्तो लिहन्तु । आनन्दानामुत्तरङ्गत्तरङ्गैर्जीवद्भिर्यद्भज्य ते मुक्तिसौख्यम ॥ ५ ॥
卐 षोडशभावनाष्टकम् । प्रभातिरागण गीयते ॥ अनुभव विनय सदा सुखमनुभव, औदासीन्यमुदारं रे । कुशलसमागममागमसारम् , कामितफलमन्दारं रे, अनु० ।। १ ।। परिहर परचिन्तापरिवारम् , चिन्तथ निजमविकारं रे । तव किं कोऽपि चिनोति करीरम् , चिनुतेऽन्यः सहकारं रे, अनु० ॥२॥ योऽपि न सहते हितमुपदेशम , तदुपरि मा कुरु कोपं रे ।। निष्फलया किं परजनतप्त्या, कुरुषे निजसुखलोपं रे, अनु० ॥३॥ सूत्रमपास्थ जडा भाषन्ते, केचन मतमुत्सूत्रं रे । कि कुर्मस्ते परिहृतपयसो, यदि पीयन्ते (पिबन्ति) मूत्रं रे, अनु० ॥४।। पश्यसि कि न मनःपरिणामम् , निजनिजगत्यनुसारं रे । येन जनेन यथा भवितव्यम् , तद्भवता दुर्वारं रे, अनु० ॥ ५ ॥ रमय हृदा हृदयङ्गमसमताम , संवृणु मायाजालं रे । वृथा वहसि पुद्गलपरवशता-मायुः परिमितकालं रे, अनु० ॥ ६ ॥ अनुपमतीर्थमिदं स्मर चेतन-मन्तःस्थितमभिरामं रे । विरतिभावविशदपरिणामम , लभसे सुखमविरामं रे, अनु० ॥७॥ परब्रह्मपरिणामनिदानम् , स्फुटकेवलविज्ञानं रे । विरचय विनयविवेचितज्ञा(गा?)नम् , शान्तसुधारसपानं रे, अनु० ॥८॥ इति श्रीशान्तसुधारसगेयकाव्ये माध्यस्थ्यभावनाविभावनो
नाम षोडश : प्रकाश :