________________
२९
परिहरणीयो गुरुर विवेकी, भ्रमयति यो मतिमन्दम् । सुगुरुवचः सकृदपि परिपीतम्, प्रथयति परमानन्दं रे, सज० ॥३॥ कुमततमोभरमीलितनयनम्, किमु पृच्छत पन्थानम् । दधिबुद्धया नर जलमन्थन्याम् किमु निद्धत मन्थानं रे,
सुज० 11811
·
अनिरुद्ध मन एव जनानाम्, जनयति विविधातङ्कम् । सपदि सुखानि तदेव विधत्ते, आत्माराममशङ्कं रे, सुज० ॥५॥
परिहरताश्रवविकथागौरव - मदनमनादिवयस्यम् । क्रियतां सांवर साप्तपदीनम्, ध्रुवमिदमेव रहस्यं रे, सुज० ||६|| सात इह किं भवकान्तारे, गदनिकुरम्बमपारम् । अनुसरताऽऽहितजगदुपकारम्, जिनपतिमगदङ्कारं रे, सुज ||७|| शृणुतैकं विनयोदितवचनम्, नियतायतिहितर चनम् । रचयत कृतसुखशतसन्धानम्, शान्तसुधारसपानं रे, सुज० ॥८॥ इति श्री शान्त सुधार सगेयकाव्ये कारुण्यभावनाविभावनो नाम नाम पञ्चदशः प्रकाशः
( पञ्चापि शालिनीवृत्तानि )
श्रान्ता यस्मिन् विश्रमं संश्रयन्ते, रुग्णा: प्रीति यत्समासाद्य सद्यः । लभ्यं रागद्वेषविद्वेषिरोधा - दौदासीन्यं सर्वदा तत्प्रियं नः ॥ १ ॥ लोके लोका भिन्नभिन्नस्वरूपाः, भिन्नैर्भिन्नैः कर्मभिर्मर्मभिद्भिः । रम्यारम्यैश्चेष्टितैः ः कस्य कस्य तद्विद्वद्भिः स्तूयते रुष्यते वा ||२|| मिथ्या शंसन्वीरतीर्थेश्वराणां, रोद्धुं शेके न स्वशिष्यो जमालिः । अन्यः को वा त्स्यते केन पापात्तस्मादौदासीन्यमेवात्मनीनम् ॥३