SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अथाकस्मादस्मिन् विकिरति रजः क्रूरहृदयो रिपुर्वा रोगो वा भयमुत जरा मृत्युरेथवा ॥ २ ॥ (स्रग्धरावृत्तम) स्पर्धन्ते केऽपि केचिद्दधति हृदि मिथो मत्सरं क्रोधदग्धा युध्यन्ते केऽप्यरुद्धा धनयुवतिपशुक्षेत्रपद्रादिहेतोः । केचिल्लोभाल्लभन्ते विपदमनुपदं दूरदेशानटन्तः किं कुर्मः किं वदामो भृशमरतिशतैर्व्याकुलं विश्वमेतत् ॥३॥ ( उपजातिवृत्तत्रयम् ) स्वयं खनन्तः स्वकरण गर्तान , मध्ये स्वयं तत्र तथा पतन्ति । यथा ततो निष्क्रमणं तु दूरेऽधोऽधःप्रपाताद्विरमन्ति नैव ॥४॥ प्रकल्पयन्नास्तिकतादिवाद-मेवं प्रमाद परिशीलयन्तः । मना निगोदादिषु दोषदग्धाः, दुरन्तदुःखानि हहा सहन्ते ॥५॥ शृण्वन्ति ये नैव हितोपदेशम् , न धर्मलेशं मनसा स्पृशन्ति । रुजः कथङ्कारमथापनेयास्तेषामुपायस्त्वयमेक एव ॥६॥ ( अनुष्टुब्वृत्तम् ) परदुःखप्रतीकारमेवं ध्यायन्ति ये हृदि । लभन्ते निर्विकारं ते सुखमायतिसुन्दरम् ॥७॥ ॥ अथ पञ्चदशभावनाष्टकम् । रामकुलिरागेण गीयते ॥ सुजना भजत मुदा भगवन्तम् , सुजना भजत मुदा भगवन्तम् । शरणागतजनमिह निष्कारण-करुणावन्तभवन्तं रे, सुज० ॥१॥ क्षणमुपधाय मनः स्थिरतायाम् , पिवत जिनागमसारम् । कापथघटनाविकृतविचारम् , त्यजत कृतान्तमसारं रे, सुज० ॥२॥
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy