________________
भदधुः केचन शीलमुदारम् , गृहिणोऽपि परिहृतपरदारम् । यश इह सम्प्रत्यपि शुचि तेषाम् , विलसति फलिताफलसहकारम् ,
विन० ५ या वनिता अपि यशसा साकम् , कुलयुगलं विदधति सुपताकम् । तासां सुचरितसश्चितराकम् , दर्शनमपि कृतसुकृतविपाकम् ,
विन० ॥६॥ तात्त्विकसात्त्विकसुजनवतंसाः, केचन युक्तिविवेचनहंसाः । अलमकषत किल भुवनाभोगम , स्मरणममीषां कतशुभयोगम् ,
विन० ॥७॥ इति परगुणपरिभावनसारम् , सफलथ सततं निजमवतारम् । कुरु सुविहितगुणनिधिगुणगानम् , विरचय शान्तसुधारसपानम् ,
विन० ८
। इति श्रीशान्तसुधारसगेयकाव्ये प्रमोदभावनाविभावनो नाम
चतुर्दशः प्रकाशः
( मालिनीवृत्तम ) प्रथममशनपानप्राप्तिवाञ्छाविहस्ता. स्तदनु वसनवेश्मालङ्कतिव्यग्रचित्ताः। परिणयनमपत्यावाप्तिमिष्टेन्द्रियार्थान सततमभिलषन्तः स्वस्थतां क्वाऽ नुवीरन् ॥ १ ॥
( शिखरिणीवृत्तम् ) उपायानां लक्षैः कथमपि समासाद्य विभवं . भवाभ्यासात्तत्र ध्रुवमिति निबध्नाति हृदयम् ।