________________
( उपजातिवृत्तम् ) मिथ्यादृशामप्युपकारसारम् , संतोषसत्यादिगुणप्रसारम् । वदान्यता-वैनयिकप्रकारम् , मार्गानुसारीत्यनुमोदयाम ॥ ५ ॥
(स्रग्धरावृत्तम् ) जिह्व प्रवीभव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना भूयास्तामन्यकीर्तिश्रुतिरसिकतया मेऽद्य कर्णी सुकर्णौ । वीक्ष्यान्यप्रौढलक्ष्मी दूतमुपचिनुतं लोचने रोचनत्वं संसारेऽस्मिन्नसारे फलमिति भवतां जन्मनो मुख्यमेव ॥ ६॥
( उपजातिवृत्तम् ) प्रमोदमासाद्य गुणैः परेषां येषां मतिर्मजति साम्यसिन्धौ । देदीप्यते तेषु मन प्रसादो गुणास्तथैते विशदीभवन्ति ॥ ७ ॥
ॐ अथ चतुर्दशभावनाष्टकम् । टोडीरागेण गीयते ॥ विनय विभावय गुणपरितोषम् , विनय विभावय गुणपरितोषम् । परिहर दूरं मत्सरदोषम् , विन० निजसुव ताप्तवरेषु परेषु, विन० ॥१॥ दिष्ट्यायं वितरित बहुदानम् , वरमयमिह लभते बहुमानम् । किमिति न विमृशसि परपरभागम , यद्विभजसि तत्सुकृतविभागम ,
विन०२ येषां मन इह विगतविकारम् , ये विदधति भुवि जगदुपकारम् । तेषां वयमुचिताचरितानाम , नाम जपामो वारंवारम् , विन० ॥३॥ अहह तितिक्षागुणमसमानम् , पश्यत भगवति मुक्तिनिदानम् । येन रुषा सह लसदभिमानम , झटिति विघटते कर्मवितानम ,
विन०४