________________
२५
परमात्मनि विमलात्मनाम् परिणम्य वसन्तु । विनय समामृतपानतो. जनता विलसन्तु, विनः || ८ ||
इति श्रीशान्त सुधार सगेयकाव्ये मैत्रीभावनाविभावनो नाम त्रयोदशः प्रकाशः
( स्रग्धरावृत्तचतुष्टयम् )
धन्यास्ते वीतरागाः क्षपकपथर्गातक्षीणकमेपरागास्त्रैलोक्ये गन्धनागाः सहजसमुदितज्ञानजाग्रद्विरागा । अध्यारुह्यात्मशुद्ध्या सकलशशिकलानिर्मलध्यानधारामारान्मुक्तेः प्रपन्नाः कृतसुकृतशतोपार्जितार्हन्त्य लक्ष्मीम् ॥ १ ॥
तेषां कर्मक्षयोत्थैरतनुगुणगणैर्निर्मलात्म स्वभावर्गायं गायं पुनीमः स्तवन परिणतैरष्टवर्णास्पदानि । धन्यां मन्ये रसज्ञां जगति भगवतस्तोत्रवाणीरसज्ञामज्ञां मन्ये तदन्यां वितथजनकथाकार्य मौखर्यमग्नाम् ॥ २ ॥
निर्धन्यास्तेऽपि धन्या गिरिगहनगुहागह्वरान्तर्निविष्टा धर्मध्यानावधाना समरससुहिताः पक्षमासोपवासाः । येऽन्येऽपि ज्ञानवन्तः श्रुततिधिय दत्तधर्मोपदेशाः शान्ता दान्ता जिताक्षा जगति जिनपते शासनं भासयन्ति ॥ ३॥
दानं शीलं तपो ये विदधति गृहिणो भावनां भावयन्ति धर्म धन्याचतुर्धा श्रुतमुपचितश्रद्धयाराधयन्ति । साध्यः श्राद्ध्यश्च धन्याः श्रुतविशदधिया शील मुद्भावयन्त्यस्तान्सर्वान्मुक्तगर्वाः प्रतिदिन मसकृद्भाग्यभाजः स्तुवन्ति ॥ ४ ॥