________________
( इन्द्रवज्रावृत्तद्वयम् ) एकैन्द्रियाद्या अपि हन्त जीवाः, पञ्चेन्द्रियत्वाद्यधिगत्य सम्यक् । बोधिं समाराध्य कदा लभन्ते, भूयो भवभ्रान्तिभियां विरामम ॥७।। या रागरोषादिरुजो जनानाम् , शाम्यन्तु वाकायमनोद्रुहस्ताः । सर्वेऽप्युदासीनरसं रसन्तु, सर्वत्र सर्वे सुखिनो भवन्तु ।।८।।
ॐ अथ त्रयोदशभावनाष्टकम् । देशाखरागेण गीयते ॥ विनय विचिन्तय मित्रताम् , त्रिजगति जनतासु । कर्मविचित्रतया गतिम् , विविधां गमितासु, विन० ॥ १ ॥ सर्वे ते प्रियबान्धवाः, न हि रिपुरिह कोऽपि । मा कुरु कलिकलुषं मनो, निजसुकृतविलोपि. विन० ॥२॥ यदि कोपं कुरुते परो, निजकर्मवशेन । अपि भवता किं भूयते, हृदि रोषवशेन, विन० ॥ ३ ॥ अनुचितमिह कलहं सताम् , त्यज समरसमीन । भज विवेककलहंसताम् , गुणपरिचयपीन, विन० ॥ ४ ॥ शत्रुजनाः सुखिनः समे, मत्सरमपहाय । सन्तु गन्तुमनसोऽप्यमी, शिवसौख्यगृहाय. बिन० ॥ ५ ॥ सकृदपि यदि समतालवम् , हृदयेन लिहन्ति । विदितरसास्तत इह रतिम , स्वत एव वहन्ति, विनः ॥ ६ ॥ किमुत कुमतमदमूर्छिताः, दुरितेषु पतन्ति । जिनवचनानि कथं हहा, न रसादुपयन्ति, विन० ॥ ७ ॥