________________
चतुरशीतावहो योनिलक्षेष्वियम् , क त्वयाकर्णिता धर्मवार्ता ॥ प्रायशो जगति जनता मिथो विवदते, ऋद्धिरसशातगुरुगौरवार्ता
बुध्य० ॥७॥ एवमतिदुर्लभात्प्राप्य दुर्लभतमम् , बोधिरत्नं सकलगुणनिधानम् । कुरु गुरुप्राज्यविनयप्रसादोदितम् ,शान्तरससरसपीयूषपानम् बुध्यास इति श्रीशान्तसुधारसगेयकाव्ये बोधिदुर्लभभावना विभावनो
नाम द्वादशः प्रकाशः
( अनुष्टुब्वृत्तम् ) सद्धर्मध्यानसंध्यान-हेतवः श्रीजिनेश्वरैः ।
मैत्रीप्रभृतयः प्रोक्ताश्चतस्रो भावनाः पराः ॥१॥ तथाहः-मैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि नियोजयेत् । धर्मध्यानमुपस्कर्तुम् , तद्धि तस्य रसायनम् ॥२॥
( उपजातिवृत्तम् ) मैत्री परेषां हितचिन्तनं यद्-भवेत्प्रमोदो गुणपक्षपातः । कारुण्यमार्ताङ्गिरुजां जिहीर्ष-त्युपेक्षणं दुष्टधियामुपेक्षा ॥३॥ सर्वत्र मैत्रीमुपकल्पयात्मन् , चिन्त्यो जगत्यत्र न कोऽपि शत्रुः । कियद्दिनस्थायिनि जीवितेऽस्मिन् , किं खिद्यते वैरिधिया परस्मिन् ॥४॥ सर्वेऽप्यमी बन्धुतयानुभूताः, सहस्रशोऽस्मिन् भवता भवाब्धौ । जीवास्ततो बन्धव एव सर्वे, न कोऽपि ते शत्रुरिति प्रतीहि ॥५॥ सर्वे पितृभ्रातृपितृव्यमातृ-पुत्राङ्ग जास्त्रीभगिनीस्नुषात्वम् । जीवाः प्रपन्ना बहुशस्तदेतत्कुटुम्बमेवेति परो न कश्चित् ॥६॥