________________
प्रतीतिः । प्रमाणस्वरूपादेरन्यत् तदाभासम् सन्निकर्षाद्यस्वसंविदितपरानवभासकज्ञानदर्शनसंशयाद्याः प्रमाणाभासाः। द्विचन्द्रादिज्ञानं विभङ्गश्च प्रत्यक्षाभासम् । अतस्मिंस्तदिति स्मरणाभासं, यज्ञदत्ते स देवदत्तो यथा । सहशे तदेवेदं तत्सदशमित्यादिज्ञानं प्रत्यभिज्ञानाभासं यमलज्ञानवत् । असम्बद्ध तज्ज्ञानं ताभासं यावांस्तत्पुत्रः स श्याम इति यथा ॥ अनुमानाभासमिदम्-(तत्र) अनिष्ठादि पक्षाभासः अनिष्टो मीमांसकस्यानित्यः शब्दः, सिद्धः श्रावणः शब्दः, बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैरनुष्णोऽग्निरित्यादिवत् । असिद्धविरुद्धानैकान्तिका हेत्वाभासा -प्रमाणेनासिद्धान्यथानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात ; विपरीतान्यथानुपपत्तिविरुद्धः, अनित्यः पुरुषः प्रत्यभिज्ञानादिमत्वात् ; विपक्षेप्यविरुद्धवृत्तिरनैकान्तिकः, अनित्यः शब्दः प्रमेयत्वात् ।। अन्वये दृष्टान्ताभासा असिद्धसाध्यसाधनोभयाः, अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ; विपरीतान्वयश्च यदपौरुषेयं तदमूर्त विद्युदादिनाऽतिप्रसङ्गात् । व्यतिरेकेऽसिद्धतद्वयतिरेकाः, परमा ण्विान्द्रयसुखाकाशवत् । विपरीतव्यतिरेकश्च यन्नामूर्त तन्नापौरुषमिति । अनाप्तवचनजं ज्ञानमागमाभासं नद्यास्तीरे मोदकराशयः सन्ति धाववं धावध्वं माणवकाः । प्रत्यक्षमेकं प्रमाणमित्यादि सङ्ख्याभासम्, विषयाभासं सामान्य विशेषो द्वयं वा स्वतन्त्रम् । फलाभासं प्रमादभिन्न भिन्नमेव वा ॥६॥
मूलनयौ द्रव्यार्थिकपर्यायाथिको, द्रव्यार्थिकस्नेधा, नैगमसङ्ग्रहव्यवहारभेदात् । पर्यायार्थिकञ्चतुर्दा ऋजुसूत्रशब्दसमभिरूदैवम्भूतभेदात् । अन्योऽन्यगुणप्रधानभूतभेदप्रवणो नैगमः । सन्मात्रग्राही सङग्रहः । सद्विशेषप्रकाशको व्यवहारः । शुद्धपर्यायग्राही ऋजुसूत्रः । कालकारकलिङ्गानां भेदाद् ध्वनेरर्थभेदवादी शब्दः ।