________________
सोऽयं ज्ञेयः पूरुषो लोकनामा षड्व्यात्माऽकृत्रिमोऽनाद्यनन्तः । धर्माधर्माकाशकालात्मसंज्ञैर्द्रव्यैः, पूर्णः सर्वतः पुद्गलैश्च ॥ ५ ॥ रङ्गस्थानं पुद्गलानां नटानाम् , नानारूपैर्नृत्यतामात्मनां च । कालोद्योगस्वस्वभावादिभावैः, कर्मातेाद्यैर्नतितानां नियत्या ॥ ६ ॥ एवं लोको भाव्यमानो विविक्त्या, विज्ञानां स्यान् मानसस्थैर्यहेतुः। स्थैर्य प्राप्ते मानसे चात्मनीना, सुप्राप्यैवाध्यात्मसौख्यप्रसूतिः ।।७।।
卐 एकादशभावनाष्टकम् । काफीरागेण गीयते ॥ विनय विभावय शाश्वतम् , हृदि लोकाकाशम् । सकलचराचरधारणे, परिणमदवकाशम् , विन० ॥ १ ॥ लसदलोकपरिवेष्टितम् , गणनातिगमानम् । पञ्चभिरपि धर्मादिभिः, सुघटितसीमानम् , विन० ।। २ ।। समवघातसमये जिनैः, परिपूरितदेहम् । असुमदणुकविविधक्रिया-गुणगौरवगेहम् , विन० ॥ ३ ॥ एकरुपमपि पुद्गलैः कृतविविधविवर्तम् । काञ्चनशैलशिखरोन्नतम् , कचिदवनतगर्तम् , विन० ॥ ४ ।। कचन तविषमणिमन्दिरै-रुदितोदितरूपम् । घोरतिमिरनरकादिभिः कचनातिविरूपम् , विन० ॥ ५ ॥ कचिदुत्सवमयमुज्वलम् , जयमङ्गलनादम् । कचिदमन्दहाहारवम् , पृथुशोकविषादम् , विन० ॥ ६ ॥ बहुपरिचितमनन्तशो, निखिलैरपि सत्त्वैः । जन्ममरणपरिवर्तिभिः, कृतमुक्तममत्वैः विन० ॥ ७ ॥