SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ क्षमासत्सन्तोषदयादिक-सुभगसकलपरिवार । देवासुरनरपूजितशासन-कृतबहुभवपरिहार पाल० ॥ ५ ॥ बन्धुमबन्धुजनस्य दिवानिश-मसहायस्य सहाय । भ्राम्यति भीमे भवगहनेऽङ्गी, त्वां बान्धवमपहाय पाल० ॥ ६ ॥ द्रगति गहनं जलति कृशानुः, स्थलति जलधिरचिरेण । तव कृपयाखिलकामितसिद्धिर्बहुना किं नु परेण, पाल० ॥ ७ ॥ इइ यच्छसि सुखमुदितदशाङ्गन् प्रेत्येन्द्रादिपदानि । क्रमतो ज्ञानादीनि च वितरसि, निःश्रेयससुखदानि पाल० ॥ ८ ॥ सर्वतन्त्रनवनीत सनातन, सिद्धिसदनसोपान । जय जय विनयवतां प्रतिलम्भित-शान्तसुधारसपान पाल• ॥९॥ इति श्रीशान्तसुधारसगेयकाव्ये धर्मभावनाविभावनो नाम दशम : प्रकाश : ( शालिनी वृत्तम् ) सप्तधोऽधो विस्तृता याः पृथिव्यश्छत्राकाराः सन्ति रत्नप्रभाद्याः । ताभिः पूर्णो योऽस्त्यधोलोक एतौ, पादौ यस्य व्यायतौ सप्तरज्जू ॥१॥ तिमग्लोको विस्तृतो रजुमेकाम् , पूर्णो द्वीपैरर्णवान्तैरसङ्घयैः । यस्य ज्योतिश्चक्रकाश्चीकलापम् मध्ये काश्य श्रीविचित्रं काटत्रम् ॥२॥ लोकोऽथोर्चे ब्रह्मलोके द्युलोके यस्य व्याप्तौ कूपरौ पञ्चरज्ज । लोकस्याऽन्तो विस्तृतो रज्जुमेकाम् , सिद्धज्योतिश्चित्रको यस्य मौलिः ३ यो वैशाखस्थानकस्थायिपादः श्रोणीदेशे न्यस्तहस्तद्वयश्च । कालेऽनादौ शश्वदूर्ध्वदमत्वाद्, बिभ्राणोऽपि श्रान्तमुद्रामखिन्नः ॥४॥
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy