________________
१८
( शार्दूलविक्रीडितं वृत्तम् ) यस्मिन्नैव पिता हिताय यतते, भ्राता च माता सुतः सैन्यं दैन्यमुपैति चापचपलम् , यत्राऽफलं दोर्बलम । तस्मिन् कष्टदशाविपाकसमये, धर्मस्तु संवर्मितः सज्जः सज्जन एष सर्वजगत-स्त्राणाय बद्धोद्यमः ॥ ५ ॥ त्रैलोक्यं सचराचरं विजयते यस्थ प्रसादा(भावा?)दिदम , योऽत्राऽमुत्र हितावहस्तनुभृतां सर्वार्थसिद्धिप्रदः । येनानर्थकदर्थना निजमहःसामर्थ्यतो व्यथिता तस्मै कारुणिकाय धर्मविभवे, भक्तिप्रणामोऽस्तु मे ॥ ६ ।।
( मन्दाक्रान्तावृत्तम् ) प्राज्यं राज्यं सभगदयिता, नन्दना नन्दनानाम , रम्यं रूपं सरसकविता-चातुरी सुस्वरत्वम् । नीरोगत्वं गुणपरिचयः, सजनत्वं सुबुद्धिम् किं नु ब्रूमः फलपरिणतिम , धर्मकल्पद्रुमस्य ॥ ७ ॥ ॥ अथ दशमभावनाष्टकम् । वसन्तरागेण गीयते ॥
पालय पालय रे पालय मां जिनधर्म । मङ्गलकमलाकेलिनिकेतन, करुणाकेतन धीर । शिवसुखसाधन भवभयबाधन, जगदाधार गम्भीर, पाल० ॥१॥ सिञ्चति पयसा जलधरपटली, भूतलममृतमयेन । सूर्याचन्द्रमसावुदयेते, तव महिमातिशयेन, पाल० ॥२॥ निरालम्बमियमसदाधारा, तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तम्भम् , त्वां सेवे विनयेन, पाल० ॥३॥ दानशीलशुभभावतपोमुख-चरितार्थीकृतलोक । शरणस्मरणकृतामिह भविनाम् , दूरीकृतभयशोक, पाल० ॥४॥