________________
प्रायश्चित्तं वैथावृत्त्यम , स्वाध्यायं विनयं च । कायोत्सर्ग शुभध्यानम् , आभ्यन्तरमिदमं च, विभा० ॥ ५ ॥ शमर्यात तापं गमयति पापम् , रमयति मानसहंसम् ।। हरति विमोहं दूरारोहम् , तप इति विगताशंसम् , विभा०॥ ६ ॥ संथमकमलाकार्मणमुज्ज्वल-शिवसुखसत्यङ्कारम् । चिन्तितचिन्तामणि-माराधय तप इह वारंवारम् विभा० ॥ ७ ॥ कर्मगदौषधमिदमिदमस्य च, जिनपतिमतमनुपानम् । विनय समाचर सौख्यनिधानम् , शान्तसुधारसपानम् , विभा० ॥८॥ __ इति श्रीशान्तसुधारसगेयकाव्ये निर्जराभावनाविभावनो नाम
नवमः प्रकाशः
( उपजातिवृत्तम् ) दानं च शीलं च तपश्च भावो, धर्मश्चतुर्धा जिनबान्धवेन । निरूपितो यो जगतां हिताय, स मानसे मे रमतामजस्रम् ॥१॥
( इन्द्रवज्रावृत्तत्रयम् ) सत्यक्षमामार्दवशौचसङ्गत्यागाऽऽर्जवब्रह्मविमुक्तियुक्तः । पः संथमः कि च तपोऽवगूढश्चारित्रधर्मो दशधाऽयमुक्तः ॥२॥ यस्य प्रभावादिह पुष्पदन्तौ, विश्वोपकाराय सदोदयेते । ग्रीष्मोष्मभीष्मामुदितस्तडित्वान् , काले समाश्वासयति क्षितिं च ॥३॥ उल्लोलकल्लोलकलाविलासैन प्लावयत्यम्बुनिधिः क्षितिं यत् । न घ्नन्ति यव्याघ्रमरुद्दवाद्या, धर्मस्य सर्वोऽप्यनुभाव एषः ॥४॥