________________
( उपेन्द्रवत्रावृत्तम् ) निकाचितानामपि कर्मणां यद्, गरीयसां भूधरदुर्धराणाम् । विभेदने वचमिवातितीव्रम् , नमोऽस्तु तस्मै तपसेऽद्भताय ॥ ४ ॥
( उपजातिवृत्तम् ) किमुच्यते सत्तपसः प्रभावः, कठोरकर्मार्जितकिल्बिषोऽपि । दृढप्रहारीव निहत्य पापम् , यतोऽपवर्ग लभतेऽचिरेण ॥ ५ ॥ यथासुवर्णस्य शुचिस्वरूपम् , दीप्तः कृशानुः प्रकटीकरोति । तथात्मनः कर्मरजो निहत्य, ज्योतिस्तपस्तद्विशदीकरोति ॥ ६ ॥
( स्रग्धरावृत्तम् ) वाह्येनाभ्यन्तरेण प्रथितबहुभिदा जीयते येन शत्रुश्रेणी बाह्यान्तरङ्गा भरतनृपतिवद्भावलब्धद्रढिना । यस्मात्प्रादुर्भवेयुः प्रकटितविभवा लब्धयः सिद्धयश्च वन्दे स्वर्गापवर्गार्पणपटुसततं तत्तपो विश्ववन्द्यम् ।। ७ ॥
ॐ अथ नवमभावनाष्टकम् । सारंगरागेण गीयते ॥ विभावय विनय तपोमहिमानम् , (ध्रुवपदम् ,) बहुभवसञ्चितदुष्कृतममुना, लभते लघु लघिमानम् , विभा० ॥१॥ याति घनाऽपि घनाघनपटली. खरपवनेन विरामम् । भजति तथा तपसा दुरिताली, क्षणभङ्गुरपरिणामम् , विभा० ॥२॥ वाञ्छितमाकर्षति दूरादपि रिपुमपि ब्रजति वयस्यम् । तप इदमाश्रय निर्मलभावादागमपरमरहस्यम् विभा० ॥ ३ ॥ अनशनमूनोदरतां वृत्ति ह्रासं रसपरिहारम् । भज सांलीन्यं कायक्लेशम् , तप इति बाह्यमुदारम् , विभा० ॥४॥