________________
आत रौद्रं ध्यानं मार्जय, दह विकल्परचनाऽनायम् । यदियमरुद्धा मानसवीथी, तत्त्वविदः पन्था नाऽयम् , शृणु० ॥४॥ संयमयोगैरवहितमानस-शुद्ध्या चरितार्थय कायम् । नानामतरुचिगहने भुवने, निश्चिनु शुद्धपथं नायम् , शृणु० ॥५॥ ब्रह्मवतमङ्गीकुरु विमलम् , बिभ्राणं गुणसमवायम् । उदितं गुरुवदनादुपदेशम् , सङ्गहाण शुचिमिव रायम् , शृणु० ॥६॥ संयमवाङ्मयकुसुमरसैरति-सुरभय निजमध्यवसायम् । चेतनमुपलक्षय कृतलक्षण-झानचरणगुणपोयम् शृणु० ॥७॥ वदनमलङ्करु पावनरसनम् , जिनचरितं गावं गायम् । सविनय शान्तिसुधारसमेनम् , चिरं नन्द पायं पायम् , शृणु० ॥८॥ इती श्रीशान्तसुधारसगेयकाव्ये संवरमावनाविभावनो नाम
अष्टमः प्रकाशः
( इन्द्रवज्रावृत्तम् ) यन्निर्जरा द्वादशधा निरुक्ता, तद् द्वादशानां तपसां विभेदात् । हेतुप्रभेदादिह कार्यभेदः, स्वातन्त्र्यतस्त्वेकविधैव सा स्यात् ॥१॥
( अनुष्टुवृत्तद्वयम् ) काष्ठोपलादिरूपाणां निदानानां विभेदतः । वह्निर्यथैकरूपोऽपि, पृथग्रूपो विवक्ष्यते ॥ ५ ॥ निर्जरापि द्वादशधा, तपोभेदैस्तथोदिता । कर्मनिर्जरणात्मा तु, सैकरूपैव वस्तुतः ॥ ३ ॥