________________
१४
संयमेन विषयाविरतत्वे, दर्शनेन वितथाभिनिवेशम् । ध्यानमार्तमथ रौद्रमजस्रम्, चेतसः स्थिरतया च निरुन्ध्याः ||२||
( शालिनीवृत्तम् )
क्रोधं क्षान्त्या मार्दवेनाभिमानम्, हन्या मायामार्जवेनोळवलेन । लोभं वारांराशिरौद्रं निरुन्ध्या सन्तोषेण प्रांशुना सेतुनेव ||३||
9
( स्वागतावृत्तम् )
गुप्तिभिस्तिसृभिरेवमजय्यान्, जीन् विजित्य तरसाधमयोगान् 1 साधुसंवरपथे प्रयतेथा, लप्स्यसे हितमनीहितमिद्धम् ॥ ४ ॥
( मन्दाक्रान्तावृत्तम् )
एवं रुद्धेष्वमलहृदयैराश्रवेष्वाप्तवाक्यश्रद्धाचचत्सितपटपटुः सुप्रतिष्ठानशाली । शुभ्धैर्योगे जेवनपवनैः प्रेरितो जीवपोतः स्रोतस्तीर्त्वा भवजलनिधेर्याति निर्वाणपुर्याम् ॥ ५॥
5 अष्टमभावनाष्टकम् । नटरागेण गीयते 5 शृणु शिवसुखसाधन सदुपायम्, सदुपायं रे सदु० शृणु शिवसुखसाधन सदुपायम् । ज्ञानादिकपावनरत्नत्रय - परमाराधनमनपायम् शृणु ॥ १ ॥ विषयविकारमपाकुरु दूरम्, क्रोधं मानं सह मायम् ।
,
लोभरिपुं च विजित्य सहेलम् भज संयमगुणमकषायम् शृणु०॥२॥ उपशमरसमनुशीलय मनसा, रोषदहनजलदप्रायम् । कलय विरागं धृतपरभागम्, हृदि विनयं नायं नायम् शृणु० ||३||
,