________________
4 सप्तमभावनाष्टकम्। धनाश्रीरागेण गीयते ॥ परिहरणीया रे, सुकृतिभिराश्रवा, हृदि समतामवधाय । प्रभवन्त्येते रे, भृशमुच्छृङ्खला, विभुगुणविभववधाय, परि० ॥१॥ कुगुरुनियुक्ता रे, कुमतिपरिप्लुताः, शिवपुरपथमपहाय । प्रयतन्तेऽमी रे, क्रियया दुष्टया, प्रत्युत शिवविरहाय, परि० ॥२॥ अविरतचित्ता रे, विषयवशीकृता, विषहन्ते विततानि । इह परलोके रे, कर्मविपाकजा-न्यविरलदुःखशतानि, परि० ॥३॥ करिझषमधुपा रे, शलभमृगादयो, विषयविनोदरसेन । हन्त लभन्ते रे, विविधा वेदना, बत परिणतिविरसेन, परि० ॥४॥ उदितकषाया रे, विषयवशीकृता, यान्ति महानरकेषु । परिवर्तन्ते रे, नियतमनन्तशो, जन्मजरामरणेषु, परि० ॥५॥ मनसा वाचा रे, वपुषा चञ्चला, दुर्जयदुरितभरेण । उपलिप्यन्ते रे, तत आश्रवजये, यततां कृतमपरेण, परि० ॥६॥ शुद्धा योगा रे, यदपि यतात्मनाम् , स्रवन्ते शुभकर्माणि । काञ्चननिगहां-स्तान्यपि जानीयात् , हतनिर्वृतिशर्माणि, परि० ॥७॥ मोदस्वैवं रे, साश्रवपाप्मनाम् , रोधे घियमाधाय । शान्तसुधारस-पानमनारतम् , विनय विधाय विघाय, परि० ॥८॥ इति श्रीशान्तसुधारसगेयकाव्ये आश्रवभावनाविभावनो नाम
सप्तम : प्रकाश:
( स्वागतावृत्तद्वयम् ) येन येन य इहाश्रवरोधः, सम्भवेनियतमौपयिकेन । आद्रियस्व विनयोद्यतचेतास्तत्तदान्तरदृशा परिभाव्य ॥ १ ॥