________________
इह पर्यटनपराङ्मुखाः, प्रणमत भगवन्तम् । शान्तसुधारसपानतो, धृतविनयमवन्तम् , विन० ॥ ८ ॥ इति श्री शान्तसुधारसगेयकाव्ये लोकस्वरूपभावनाविभावनो
नाम एकादश प्रकाशः
( मन्दाक्रान्तावृत्तम् ) यस्माद्विस्मापयितसुमन : स्वर्गसम्पद्विलासाः प्राप्तोल्लासाः पुनरपि जनिः सत्कुले भूरिभागे । ब्रह्माद्वैतप्रगुणपदवीप्रापकं निःसपत्नम् , तदुष्प्रापं भृशमुरुधियः सेव्यतां बोधिरत्नम् ॥ १ ॥
( भुजङ्गप्रयातवृत्तत्रयम् ) · भनादौ निगोदान्धकूपे स्थिताना-मजस्र जनुसृत्युदुःखार्दितानाम् । परीणामशुद्धिः कुतस्तादृशी स्याद्, यया हन्त तस्माद्विनिर्यान्ति जीवाः ततो निर्गतानामपि स्थावरत्वम् , त्रसत्वं पुनदुर्लभं देहभाजाम् । वसत्वेऽपि पश्चाक्षपर्याप्तसंज्ञि-स्थिरायुष्यवहुर्लभं मानुषत्वम ॥३॥ तदेतन्मनुष्यत्वमाप्यापि मूढो महामोहमिथ्यात्वमायोपगूढः । भ्रमन दूरमग्नो भवागाधगर्ते, पुनः क्व प्रपद्येत तद्बोधिरत्नम् ॥४॥
( शिखरिणीवृत्तम् ) विभिन्नाः पन्थानः , प्रतिपदमनल्पाश्च मतिनः कुयुक्तिव्यासङ्गैनिजनिजमतोल्लासरसिकाः । न देवाः सानिध्यं विदधति, न वा कोऽप्यतिशयस्तदेवं कालेऽस्मिन् , य इह दृढधर्मा स सुकृती ।।५।।