SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रणयविहीने दधदभिषङ्गम् , सहते बहुसन्तापम् । त्वयि नि प्रणये पुद्गलनिचये,वहसि मुधाममतातापम् , विन० ॥६॥ त्यज संयोगं नियतवियोगम् , कुरु निर्मलमवधानम् । नहि विदधानः कथमपि तृप्यसि, मृगतृष्णाघनरसपानम् , विन० ॥७॥ भज जिनपतिमसहायसहायम् , शिवगतिसुगमोपायम् ।। पिब गदशमनं परिहृतवमनम् , शान्तसुधारसमनपायम् , विन० ॥८॥ इति श्रीशान्तसुधारसगेयकाव्ये अन्यत्वभावनाविभावनो नाम पञ्चमः प्रकाशः ( शार्दूलविक्रीडितं वृत्तम् ) सच्छिद्रो मदिराघटः परिगलत्तल्लेशसभाशुचिः शुच्यामृद्य मृदा बहिः स बहुशो धौतोऽपि गङ्गोदकैः । नाधत्ते शुचितां यथा तनुभृतां कायो निकायो महाबीभत्सास्थिपुरीषमूत्ररजसा नायं तथा शुद्धयति ॥ ९ ॥ (मन्दाक्रान्तावृत्तम् ) स्नायं स्नायं पुनरपि पुनः स्नान्ति शुद्धाभिरद्भिरिं वारं बत समलतनुं चन्दनैरर्चयन्ते । मूढात्मानो वयमपमला प्रीतिमित्याश्रयन्ते नो शु(बुद्धध?)ध्यन्ते कथमवकरः शक्यते शोधुमेवम् ॥२॥ ( शार्दूलविक्रीडितं वृत्तम् ) कपूरादिभिरर्चितोऽपि लशुनो नो गाहते सौरभं, नाजन्मोपकृतोऽपि हन्त पिशुनः सौजन्यमालम्बते । देहोऽप्येष तथा जहाति न नृणां स्वाभाविकी विस्रतां, नाभ्यक्तोऽपि विभूषितोऽपि बहुवा पुष्टोऽपि विश्वस्यते ॥३॥
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy