________________
( उपेन्द्रवज्रावृत्तम् ) यदीयसंसर्गमबाप्य सद्यो भवेच्छुचीनामशुचित्वमुच्चैः । अमेध्ययोनेर्वपुषोऽस्य शौचसङ्कल्पमोहोऽयमहो महीयान ॥४॥
(स्वागतावृत्तम् ) इत्यवेत्य शुचिवादमतथ्यम् , पथ्यमेव जगदेकपवित्रम् । शोधनं सकलदोषमलानाम् , धर्ममेव हृदये निदधीथाः ।।५।।
ॐ षष्ठभावनाष्टकम् । आसावरीरागेण गीयते ॥ भावय रे वपुरिदमतिमलिनम् , विनय विबोधय मानसनलिनम् , पावनमनुचिन्तय विभुमेकम् , परममहोदयमुदितविवेकम् . भाव०॥१॥ दम्पतिरेतोरुधिरविवर्ते, किं शुभमिह मलकश्मलगर्ने । भृशमपि पिहितः सवति विरूपम् , को बहु मनुतेऽवस्करकूपम, भाव०॥२।। भजति सचन्द्रं शुचिताम्बूलम् , कर्तु मुखमारुतमनुकूलम् । तिष्ठति सुरभि कियन्तं कालम् , मुखमसुगन्धि जुगुप्सितलालम् भाव०॥३।। असुरभिगन्धवहोऽन्तरचा(वा?)री, आवरितुं शक्यो न विकारी। वपुरुपजिघ्रसि वारंवारम् , हसति बुधस्तव शौचाचारम् , भाव० ॥४॥ द्वादश नव रन्ध्राणि निकामम् , गलदशुचीनि न यान्ति विरामम् । यत्र वपुषि तत्कलयसि पूतम् , मन्ये नव नूतनमाकूतम् , भाव० ॥५।। अशितमुपस्करसंस्कृतमन्नम् , जगति जुगुप्सां जनयति हन्नम् । पुंसवनं धैनवमपि लीढम् , भवति विगर्हितमऽति जनमीढम् ,भाव०॥६॥ केवलमलमयपुन्दलनिचये अशुचीकृतशुचिभोजनसिचये । वपुषि विचिन्तय परमिह सारम् , शिवसाधनसामर्थ्यमुदारम् ,भाव०॥७॥