________________
( शार्दूलविक्रीडितं वृत्तद्वयम् ) यस्मै त्वं यतसे बिभेषि च यतो यत्रानिशं मोदसे यद्यच्छोचसि यद्यदिच्छसि हृदा यत्प्राप्य पेप्रीयसे । स्निग्धो येषु निजस्वभावममलं नि ठ्य लालप्यसे तत्सर्वे परकीयमेव भगवन्नात्मन्न किश्चित्तव ॥ ३ ॥ दुष्टाः कष्टकदर्थनाः कति न ताः सोढास्त्वया संसतौ तिर्यङ्नारकयोनिषु प्रतिहतश्छिन्नो विभिन्नो मुहुः । सर्व तत्परकीयदुर्विलसितं विस्मृत्य तेष्वेव हा रज्यन्मुद्यसि मूढतानुपचरन्नात्मन किं लञ्जसे ॥ ४ ॥
( अनुष्टुब वृत्तम् ) ज्ञानदर्शनचारित्रकेतनां चेतनां विना ।। सर्वमन्यद्विनिश्चित्य यतस्व स्वहिताप्तये ॥ ५ ॥
ॐ पञ्चमभावनाष्टकम् । श्रीरागेण गीयते ॥ विनय निभालय निजभवनम् , तनुधनसुतसदनस्वजनादिषु, किं निजमिह कुगतेरवनम् , विन० ॥१॥ येन सहाश्रयसेऽतिविमोहा-दिदमहमित्यविभेदम् । तदपि शरीरं नियतमधीरम् , त्यजति भवन्तं धृतखेदम् , विन० ॥२॥ जन्मनि जन्मनि विविधपरिग्रह-मुपचिनुषे च कुटुम्बम् । तेषु भवन्तं परभवगमने, नानुसरति कृशमपि शुम्बम् , विन० ॥३॥ त्त्यज ममतापरितापनिदानम् , परपरिचयपरिणामम् । भज निःसङ्गतया विशदीकृत-मनुभवसुखरसमभिरामम् , विन० ॥४॥ पथि पथि विविधपथैः पथिकैः सह. कुरुते कः प्रतिबन्धम् । निजनिजकर्मवशैः स्वजनैः सह किं कुरुषे ममताबन्धम् , विन० ॥५॥