________________
यस्य यावान् परपरिग्रहः, विविधममतावीवधः ।। जलधिविनिहितपोतयुक्था, पतति तावदसावधः, विन० ॥ ३।। स्वस्वभावं मद्यमुदितो, भुवि विलुप्य विचेष्टते । दृश्यतां परभावघटनात् , पतति विलुठति जृम्भते, विन० ॥४॥ पश्य काश्चनमितरपुद्गल-मिलितमश्चति कां दशाम् । केवलस्य तु तस्य रूपम् , विदितमेव भवादृशाम् , विन० ॥ ५ ॥ एवमात्मनि कर्मवशतो, भवति रूपमनेकधा । कर्ममलरहिते तु भगवति, भासते काञ्चनविधा विन० ॥ ६ ॥ ज्ञानदर्शनचरणपर्य-वपरिवृतः परमेश्वरः । एक एवानुभवसदने, स रमतामविनश्वरः, विन० ॥ ७ ॥ रुचिरसमतामृतरसं क्षण-मुदितमास्वादय मुदा । विनय विषयातीतसुखरस-रतिरुदश्चतु ते सदा, विन० ॥ ८॥ इति श्रीशान्तसुधारसगेयकाव्ये एकत्वभावनाविभावनो नाम
चतुर्थः प्रकाश
( उपजातिवृत्तम् ) परः प्रविष्टः कुरुते विनाशम्, लोकोक्तिरेषा, न मृषेति मन्ये निर्विश्य कर्माणुभिरस्य,-किं किम् , ज्ञानात्मनो नो समपादि कष्टम् १
( स्वागतावृत्तम् ) खिद्यसे ननु किमन्यकथातः, सर्वदैव ममतापरतन्त्रः । चिन्तयस्यनुपमान्कथामात्मन्नात्मनो गुणमणीन्न कदापि ॥ २ ॥