________________
सकलसंसारभयभेदकम् , जिनवचो मनसि निबधान रे । विनय परिणमय निःश्रेयसम् , विहितशमरससुधापान रे, कल० ॥८॥ इति श्रीशान्तसुधारसगेयकाव्ये संसारभावनाविभावनो नाम
तृतीय : प्रकाशः
(खागतावृत्तम् ) एक एव भगवानयमात्मा, ज्ञानदर्शनतरङ्गसरङ्गः । सर्वमन्यदुपकल्पितमेतद्, व्याकुलीकरणमेव ममत्वम् ॥ १॥
(प्रबोधतावृत्तत्रयम् ) अबुधैःपरभावलालसा-लसदज्ञानदशावशात्मभिः । परवस्तुषु हा स्वकीयता, विषयावेशवशाद् विकल्प्यते ॥२॥ कृतिनां दयितेति चिन्तनम् , परदारेषु यथा विपत्तये । विविधातिभयावहं तथा, परभावेषु ममत्वभावनम् ॥ ३ ॥ अधुना परभावसंवृति हर चेतः परितोऽवगुण्ठिताम् । क्षणमात्मविचारचन्दन-द्रुमवातोर्मिरसाः स्पृशन्तु माम् ॥ ४ ॥
( अनुष्टुप् वृत्तम् ) एकतां समतोपेता-मेनामात्मन् विभावय । लभस्व परमानन्द-सम्पदं नमिराजवत् ॥ ५ ॥
ॐ चतुर्थभावनाष्टकम् । परजीयारागेण गीयते ॥ विनय चिन्तय वस्तुतत्त्वम् , जगति निजमिह कस्य किम् । भवति मतिरिति यस्य हृदये, दुरितमुदयति तस्य किम् , विन० ॥१॥ एक उत्पद्यते तनुमा-नेक एक विपद्यते । एक एच हि कर्म चिनुते, सैककः फलमश्नुते, विन० ॥२॥