________________
सुस्वाभासैर्यावत्स्पृशति कथमप्यर्तिविरतिं जरा तावत्कायं कवलयति मृत्योः सहचरी ।। ३ ॥
( उपजातिवृत्तम ) विभ्रान्तचित्तो बत बम्भ्रमीति, पक्षीव रुद्धस्तनुपञ्जरेऽङ्गी नुन्नो मियत्याऽतनुकर्मतन्तु-सन्दानित : सन्निहितान्तकौतु : ॥
( अनुष्टुव्वृत्तम् ) अनन्तान्पुद्गलावर्ताननन्तानन्तरूपभृत् ।
अनन्तशो भ्रमत्येव जीवोऽनादिभवार्णवे ॥ ५ ॥ म तृतीयभावनाष्टकम् । केदाररागण गीयते ॥ कलय संसारमतिदारुणम् , जन्ममरणादिभयभीत रे । मोहरिपुणेह सगलग्रहम् , प्रतिपदं विपदमुपनीत रे, कल० ॥ १ ॥ स्वजनतनयादिपरिचयगुणै-रिह मुधा बध्यसे मूढ रे । प्रतिपदं नवनवैरनुभवैः, परिभवैरसकृदुपगूढ रे, कल० ॥२॥ घटयसि कचन मदमुन्नतेः, कचदहो हीनतादीन रे । प्रतिभवं रूपमपरापरम् , वहसि बत कर्मणाधीन रे, कल० ॥ ३ ॥ जातु शैशवदशापरवशो, जातु तारुण्यमदमत्त रे । जातु दुर्जयजराजर्जरो, जातु पितृपतिकरायत्त रे, कल ॥४॥ व्रजति तनयोऽपि ननु जनकताम् , तनयतां व्रजति पुनरेष रे । भावयन्विकृतिमिति भवगते-सत्यजतमां नृभवशुभशेष रे, कल० ॥५॥ यत्र दुःखार्तिगददवलवै-रनुदिनं दह्यसे जीव रे । हन्त तत्रैव रज्यसि चिरम् , मोहमदिरामदक्षीब रे, कल० ॥ ६ ॥ दर्शयन् किमपि सुखवैभवम् , संहरंस्तदथ सहसैव रे । विप्रलम्भयति शिशुमिव जनम् , कालबटुकोऽयमत्रैव रे, कल०॥७॥