SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विन० ॥५॥ , विद्यामन्त्रमहौषधिसेवाम्, सृजतु वशीकृतदेवाम् । रसतु रसायनमुपचयकरणम्, तदपि न मुञ्चति मरणम्, वपुषि चिरं निरुणद्धि समीरम् पतति जलधिपरतीरम् । शिरसि गिरेरधिरोहति तरसा, तदपि स जीर्यति जरसा, विन० ॥६॥ सृजतीमसितशिरोरुहललितम्, मनुजशिरः सितपलितम् । को विदधानां भूषनमरसम् प्रभवति रोद्धुं जरसम्, विन० ॥७॥ उ (तु?)द्यत उग्ररुजा जनकायः कः स्यात्तत्र सहायः । एकोऽनुभवति विधुरुपरागम्, विभजति कोऽपि न भागम्, विन० ॥८॥ शरणमेकमनुसर चतुरङ्गम्, परिहर ममतासङ्गम् । विनय रचय शिव सौख्यनिधानम्, शान्त सुघार सपानम्, विन० ॥९॥ इति श्रीशान्त सुधारसगे यकाव्ये अशरणभावनाविभावनो नाम द्वितीयः प्रकाशः ( शिखरिणीवृत्तत्रयम् ) इतो लोभः क्षोभं जनयति दुरन्तो दव इवो - ल्लसँल्लाभाम्भोभिः कथमपि न शक्यः शमयितुम् । इतस्तृष्णाऽक्षाणां तुदति मृगतृष्णेव विफला कथं स्वस्थैः स्थेयं विविधभयभीमे भववने ॥ १ ॥ गलत्येका चिन्ता भवति पुनरन्या तदधिका मनोवाक्काये हा विकृतिरतिरोषात्तरजसः । विपद्गर्तावर्ते झटिति पतयालोः प्रतिपदं न जन्तोः संसारे भवति कथमप्यर्तिविरतिः ॥ २॥ सहित्वा सन्तापान शुचिजननी कुक्षिकुहरे ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहत: ।
SR No.002341
Book TitleShrutgyan Amidhara
Original Sutra AuthorN/A
AuthorKshamabhadrasuri
PublisherShrutgyan Amidhara Gyanmandiram
Publication Year
Total Pages234
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy