________________
२१३
न परं नाम मृद्वेव, कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं स्वामिने स्वान्तशुद्धये ॥१॥ न पक्षिपशुसिंहादिवाहनासीनविग्रहः । न नेत्रगात्रवकत्रादिविकारविकृताकतिः ॥२॥ न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥ न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविउम्बितनरामरः ॥४॥ न जगजननस्थेमविनाशविहितादरः । न लास्यहास्य. गीतादिविप्लवोपप्लुतस्थितिः ॥५॥ तदेवं सर्वदेवेभ्यः, सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः, कथं नाम परीक्षकैः ? ॥६॥ अनुश्रोतः सरत्पर्णतणकाष्ठादियुक्तिमत् । प्रतिश्रोतः श्रयद्वस्तु, कया युक्त्या प्रतीयताम् ? ॥७॥ अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन, वैयात्येन जगत्प्रभो ! ॥८॥ यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥९॥ क्रोधलोभभयाक्रान्तं, जगदस्माद्विलक्षणः । न गोचरो मृदुधियां, वीतराग ! कथञ्चन ॥१०॥
इत्यष्टादशप्रकाशः
卐 तव चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा। मञ्चित्ते वर्तसे वेत्त्वमलमन्येन केनचित् ॥ १॥ निगृह्य कोपतः कांश्चित् , कांश्चित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः, प्रलम्भनपरैः परैः ॥ २ ॥ अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् ? । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ? ॥ ३ ॥ वीतराग ! सपर्यातस्तवाज्ञापालनं परम् । आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय च ॥ ४ ॥ आकालमियमाज्ञा ते, हेयोपादेयगोचरा। आश्रवः सर्वथा हेय, उपादेय च संवरः ॥ ५ ॥ आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमाहतीमुष्टिरन्यदस्याः प्रपञ्चनम् ॥६॥