________________
२१२
क्षणं क्षमी | मोहाद्यैः क्रीडयैवाहं कारितः कपिचापलम् ॥ ४ ॥ प्राप्यापि तव सम्बोधिं, मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ !, शिरसि ज्वलितोऽनलः ॥ ५ ॥ त्वय्यपि त्रातरि त्रातर्यन्मोहादि - मलिम्लुचैः । रत्नत्रयं मे हियते, हताशो हा! इतोऽस्मि तत् || ६ || अन्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः । तत्तवाङ्ग्रौ विलग्नोऽस्मि नाथ ! तारय तारय ॥ ७ ॥ भवत्प्रसादेनैवाहमियतीं प्रापितो भुवम् । औदासीन्येन नेदानीं तव युक्तमुपेक्षितुम् ॥ ८ ॥ 'ज्ञाता तात ! त्वमेवैकस्त्वत्तो नान्यः कृपापरः । नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः ॥ ९ ॥ इति पोडशप्रकाशः
स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुमोदयन् । नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ॥ १ ॥ मनोवाक्कायजे पापे, कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनः क्रिययान्वितम् ॥२॥ यत्कृतं सुकृतं किञ्चिद्रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ॥ ३ ॥ सर्वेषामहदादीनां यो योऽत्त्वादिको गुणः । अनुमोदयामि तं तं सर्वं तेषां महात्मनाम् ||४|| त्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान्मुनीन्, त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः || ५ || क्षमयामि सर्वान्सत्त्वान्सर्वे क्षाम्यन्तु ते मयि । मैत्रयस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे || ६ || एकोऽहं नास्ति मे कचिन्न चाहमपि कम्यचित् । त्वदङ्घ्रिशरणस्थस्य, मम दैन्यं न किञ्चन ॥ ७ ॥ यावन्नाप्नोमि पदवीं, परां त्वदनुभावआम । तावन्मयि शरण्यत्वं मा मुञ्च शरणं भिते ॥ ८ ॥ इति सप्तदशप्रकाशः