________________
२११
त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ? ॥ ८॥
इति चतुर्दशप्रकाशः
जगज्जैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये, मुद्रयैव जगत्त्रयी ॥ १ ॥ मेरुस्तृणीकृतो मोहात्पयोधि:ष्पदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः, पाप्मभिस्त्वमपोहितः ॥२॥ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्ते शासनसर्वस्वमज्ञानै त्मसात्कृतम् ॥ ३ ॥ यस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ त्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः । विषेण तुल्यं पीयूषं. तेषां हन्त ! हतात्मनाम् ॥ ५॥ अनेडमूका भूयासुस्ते येषां त्वयि मत्सरः । शुभोदर्काय वैकल्यमपि पापेषु कर्मसु ॥६॥ तेभ्यो नमोऽञ्जलिरयं, तेषां तान्समुपास्महे । त्वच्छासनामृतरसैयेरात्माऽसिच्यतान्वहम् ॥ ७ ॥ भुवे तस्यै नमो यस्यां, तव पादनखांशवः । चिरं चूडामणीयन्ते, महे किमतः परम् ? ॥८॥ जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पट: ॥ ९ ॥
इति पञ्चदशप्रकाशः
-:*:त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः । पराणयन्ति मां नाथ ! परमानन्दसम्पदम् ॥ १॥ इतश्चानादिसंस्कारमूञ्छितो मूर्च्छयत्यलम् । रागोरगविषावेगो हताशः करवाणि किम् ? ॥२॥ रागाहिगरलाघातोऽकार्षे यत्कर्मवैशसम् । तद्वक्तुमपश्यतोऽस्मि, धिग्मे प्रच्छन्नपापताम् ॥ ३ ॥ क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रद्धः