________________
२१०
अनाहूतसहायस्त्वं, त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं, त्वमसम्बन्धबान्धवः ॥ १॥ भनक्तस्निग्धमनसममृजोज्ज्वलवाक्पथम् । अधौतामलशीलं त्वां, शरण्यं शरणं श्रये ॥२॥ अचण्डवीरवृत्तिना, शमिना शमवर्त्तिना । त्वया काममकुट्यन्त, कुटिलाः कर्मकण्टकाः ॥ ३ ॥ अभवाय महेशाया-गदाय नरकच्छिदे । अराजसाय ब्रह्मणे, कस्मैचिद्भवते नमः ॥ ४ ॥ अनुक्षितफलोदग्रा-दनिपातगरीयसः । असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥ ५ ॥ असङ्गस्य जनेशस्य, निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्त्रातुरनङ्कस्तेऽस्मि किङ्करः ॥ ६॥ अगोपिते रत्ननिधाववृते कल्पपादपे। अचिन्त्ये चिन्तारत्ने च, त्वय्यात्माऽयं मयापितः ॥७॥ फलानुध्यानवन्ध्योऽहं, फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ, किङ्कतव्यजडे मयि ॥ ८ ॥
इति त्रयोदशप्रकाशः
मनोवचःकायचेष्टाः, कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता, मनःशल्यं वियोजितम् ॥१॥ संयतानि न चाक्षाणि, नैवो. च्छङ्खलितानि च । इति सम्यकप्रतिपदा, त्वयेन्द्रियजयः कृतः ॥ २ ॥ योगस्याष्टाङ्गता नूनं, प्रपश्चः कथमन्यथा ? । आबालभावतोऽप्येष, तव सात्म्यमुपेयिवान् ॥ ३ ॥ विषयेषु विरागस्ते, चिरं सहचरेष्वपि । योगे सात्म्यदृष्टेऽपि, स्वामिन्नदमलौकिकम् ॥ ४ ॥ तथा परे न रज्यन्त, उपकारपरे परे । यथाऽपकारिणि भवानहो ! सर्वमलौकिकम् ॥ ५ ॥ हिंसका अप्युपकृता आश्रिता अप्युपेक्षिताः। इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ? ॥६॥ तथा समाधौ परमे, त्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति, यथा न प्रतिपन्नवान् ॥ ७ ॥ध्याता ध्येयं तथा ध्यानं,