________________
२१४ इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वृताः। निर्वान्ति चान्ये क्वचन, निर्वास्यन्ति तथाऽपरे ॥ ७ ॥ हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते, जन्मिनः कर्मपञ्जरात् ॥ ८ ॥
इत्येकोनविंशतितमप्रकाशः
पादपीठलुठन्मूर्ध्नि, मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥ १॥ मद्दशौ त्वन्मुखासक्ते, हर्षबाष्पजलोमिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात्क्षालयतां मलम् ॥२॥ त्वत्पुरो लुठनै यान्मद्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य, प्रायश्चित्तं किणावेलिः ॥ ३ ॥ मम त्वद्दर्शनेोद्भूताश्चिरं रोमाञ्चकण्टकाः । नुदन्तां चिरकालोत्थामसद्दर्शनवासनाम् ॥४॥ त्वद्वक त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव । मदीयर्लोचनाम्भोजः, प्राप्यतां निनिमेषता ॥ ५ ॥ त्वदास्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम ॥ ६ ॥ कण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तहि, स्वस्त्येतस्यै किमन्यया ? ॥ ७॥ तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व, नाथ ! नातः परं ब्रवे ॥८॥ श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥ ९ ॥
इति विंशतितमप्रकाशः ॥ इति श्रीवीतरागस्तोत्रम् ॥