________________
२०७
नित्यानां, युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि, युज्यतेऽर्थक्रिया न हि ॥ ४॥ यदा तु नित्यानित्यत्व-रूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव, तदा दोषोऽस्ति कश्चन ॥ ५॥ गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति, गुडनागरभेपजे ॥६॥ द्वयं विरुद्ध नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि, दृष्टो मेचकवस्तुषु ॥७॥ विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत् ॥४॥ चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि, नानेकान्तं प्रतिक्षिपेत् ॥ ९ ॥ इच्छन्प्रधानं सत्त्वाद्यैर्विरुद्वैगम्फितं गुणैः । सांख्यः सङ्ख्यावतां मुख्यो, नानेकान्तं प्रतिक्षिपेत् ॥१०॥ विमतिः सम्मतिपि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥११॥ तेनोत्पादव्ययस्थेमसम्भिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः, प्रपन्ना वस्तुतस्तु सत् । १२ ॥
। इत्यष्टमप्रकाशः ।
यत्राल्पेनापि कालेन, त्वद्भक्तैः फलमाप्यते । कलिकालः स एकोऽस्तु, कृतं कृतयुगादिभिः ॥ ९ ॥ सुषमातो दुःषमायां, कपा फलवती तव । मेरुतो मरुभूमौ हि, 'लाध्या कल्पतरोः स्थितिः ॥ २॥ श्राद्धः श्रोता सुधीर्वक्ता, युज्येयातां यदीश ! तत् । त्वच्छासनस्य साम्राज्य-मेक छत्रं कलावपि ॥३॥ युगान्तरे. ऽपि चेन्नाथ !, भवन्त्युच्छङ्खलाः खलाः । वृथैव तर्हि कुप्यामः, कलये वामकेलये ॥४॥ कल्याणसिद्धयै साधीयान, कलिरेख कषोपलः । विनाग्नि गन्धमहिमा, काकतुण्डस्य नैधते ॥ ५ ॥ निशि दीपोऽम्बुधौ द्वीपं, मरौ शाखी हिमे शिखी । कलौ दुरापः