________________
२०६
वेदद्रि-ज्वलेजलमपि क्वचित् । तथापि ग्रस्तो रागाधर्नाप्तो भवितुमर्हति ॥ १२ ॥
इति षष्ठप्रकाशः
____ धर्माधर्मी विना नाङ्गं, विनाङ्गेन मुखं कुतः ? । मुखाद्विना न वक्तृत्वं, तच्छास्तारः परे कथम् ? ॥१॥ अदेहस्य जगत्सर्गे, प्रवृत्तिरपि नोचिता। न च प्रयोजनं किञ्चित्स्वातन्त्र्यान्न पराज्ञया ॥ २ ॥ क्रिडया चेत्प्रवर्तेत, रागवान्स्यात्कुमारवत् । कृपयाऽथ सृजेत्तर्हि, सुख्येव सकलं सृजेत् ॥ ३ ॥ दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य, कृपालोः का कृपालुता ? ॥४॥ कर्मापेक्षः स चेत्तहि, न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये, किमनेन शिखण्डिना? ।।५॥ अथ स्वभावतो वृत्ति-रविता महेशितुः । परीक्षकाणां तयेष, परीक्षाक्षेपडिण्डिमः ॥६॥ सर्वभावेषु कर्तृत्वं, ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥७॥ सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते, येषां नाथ ! प्रसीदसि ॥ ८ ॥
इति सप्तम्प्रकाशः
। सत्त्वस्यैकान्तनित्यत्वे, कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि. कृतनाशाकृतागमौ ॥ १ ॥ आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयो एकान्तानित्यरूपेऽपि, न भोगः सुख दुःखयोः ॥ २॥ पुण्यपापे बन्धमोक्षौ, न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ, नानित्यैकान्तदर्शने ॥ ३ ॥ क्रमाक्रमाभ्यां