________________
२०५
सेवितुम् ॥ ५ ॥ भासां चयैः परिवृतो, ज्योत्स्नाभिरिव चन्द्रमाः । कोराणामिव दृशां ददासि परमां मुदम् || ६ || दुन्दुमिर्विश्वविश् वेश !, पुरो व्योम्नि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं, साम्राज्यमिव शंसति ॥ ७ ॥ तवोर्ध्वमूर्ध्व पुण्यर्द्धि क्रमसब्रह्मचारिणी । छत्रत्रयी त्रिभुवन - प्रभुत्वप्रौढिशंसिनी ||८|| एतां चमत्कारकारी प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा, नाथ ! मिध्यादृशोऽपि हि ? || ९ || इति पञ्चमप्रकाशः
लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौः स्ध्याय, किं पुनद्वेषविप्लवः ? ।। १ ।। तवापि प्रतिपक्षोऽस्ति, सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्यापि किं जीवन्ति विवेकिनः ? || २ || विपक्ष विरक्त ' चेत्स त्वमेवाथ रागवान् । न विपक्षो विपक्षः किं खद्योतो द्युतिमालिनः १ || ३ || स्पृहयन्ति त्वद्योगाय, यत्तेऽपि लवसत्तमाः । योगमुद्रादरिद्राणां परेषां तत्कथैव का ? ॥ ४ ॥ त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो ह न परस्त्राता, किं ब्रूमः ? किमु कुर्महे ? ॥ ५ ॥ स्वयं मलीमसाचारैः, प्रतारणपरैः परैः । वच्यते जगदप्येतत्कस्य पूत्कुर्महे पुरः ? ॥ ६ ॥ नित्यमुक्तान् जगज्जन्म - क्षेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् ॥ ७ ॥ कृतार्था जठरोपस्थदुः स्थितैरपि देवतैः । भवादृशान्निहनुवते, हाहा ! देवास्तिका: परे ।। ८ ।। स्वपुष्पप्रायमुत्प्रेक्ष्य किञ्चिन्मानं प्रकल्प्य च । सम्मान्ति देहे गेहे वा न गेहेनर्दिनः परे ॥ ९ ।। कामरागस्नेहरागा - वीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ।। १० ।। प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढ़, मूढास्त्वय्यप्युदासते ॥ ११ ॥ तिष्ठेद्वायुर्द्व
1
"
"