________________
२०४ मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद्भवान् ॥ ४ ॥ त्वयि दोपत्रयात्त्रातुं, प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुत्रयोऽपि त्रिदिवौकसः ॥ ५ ॥ अधोमुखाः कण्टकाः स्युर्धात्र्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः ॥ ६ ॥ केशरोमनखश्मश्रु, तवावस्थितमित्ययम् । बाह्योऽपि योगमहिमा, नाप्तस्तीर्थकरैः परैः ॥ ७ ॥ शब्दरूपरसस्पर्श-गन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न, त्वदने तार्किका इव ॥ ८ ॥ त्वत्पादावृतवः सर्वे, युगपत्पर्यपासते । आकालकृतकन्दर्प-साहायकभयादिव ॥९॥ सुगन्ध्युडकवर्षेण, दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शा पूजयन्ति भुवं सुराः ॥१०॥ जगत्प्रतीक्ष्य त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणम् । का गतिमहतां तेषां, त्वयि ये वामवृत्तयः ? ॥ ११ ॥ पञ्चेन्द्रियाणां दौःशील्यं, क भवेद्भवदन्तिके ? । एकेन्द्रियोऽपि यन्मुश्चत्यनिलः प्रतिकूलताम् ॥ १२ ॥ मूर्ना नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत्कृतार्थ शिरस्तेषां, व्यर्थ मिथ्या दृशां पुनः ॥ १३ ॥ जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः। भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते ॥ १४ ॥
इति चतुर्थप्रकाशः
गायन्निवालिविरुतै-नृत्यन्निव चलैर्दलैः । त्वद्गुणैरिव रक्तोऽसौ, मोदते चैत्यपादपः ॥ १ ॥ आयोजनं सुमनसोऽधस्तान्निक्षिप्तबन्धनाः । जानुदध्नीः सुमनसो, देशनोव्यां किरन्ति ते ॥ २ ॥ मालवकैशिकीमुख्य-ग्रामरागवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षाग्रीवै गैरपि ॥ ३॥ तवेन्दुधामधवला, चकास्ति चमरावली। हंसालिरिव वक्त्राब्ज-परिचर्यापरायणा ॥ ४॥ मृगेन्द्रासनमारूढे, त्वयि तन्वति देशनाम् । श्रोतुं मृगाः समायान्ति, मृगेन्द्रमिव