________________
२०३
गदाम्बुदाः । यदञ्जसा विलीयन्ते, त्वद्विहारानिलोर्मिभिः ॥ ४ ॥ नाविर्भवन्ति यद्भूमौ, मूषकाः शलभाः शुकाः । क्षणेन क्षितिपक्षिप्ता, अनीतय इवेतयः ।। ५॥ स्त्रीक्षेत्रपद्रादिभवो, यद्वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावत-वर्षादिव भुवस्तले ॥६॥ त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे । सम्भवन्ति न यन्नाथ ! मारयो भुवनारयः ।। ७ ।। कामवर्षिणि लोकानां, त्वयि वि'वैकवत्सले । अतिवृष्टिरवृष्टिर्वा, भवेद्यन्नोपतापकृत् ॥ ८ ॥ स्वराष्ट्र-परराष्ट्रेभ्यो, यक्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात, सिंहनादादिव द्विपाः ॥ ९ ॥ यत्क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि । सर्वादभूतप्रभावाढ्ये, जङ्गमे कल्पपादपे ॥ १०॥ यन्मूर्ध्नः पश्चिमे भागे, जितमार्तण्डमण्डलम् । मा भूद्वपुर्द रालोकमितीवोत्पिण्डितं महः ॥ ११ ॥ स एप योगसाम्राज्य-महिमा विश्वविश्रतः । कर्मक्षयोत्थो भगवन् ! कस्य नाश्चर्यकारणम् ? ॥ १२ ॥ अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नान्यः कमेकक्षमुन्मूलयति मूलतः ॥ १३ ॥ तथोपाये प्रवृत्तस्त्वं, क्रियासमभिहारतः । यथानिच्छ. न्नुपेयस्य, परां श्रियमशिश्रियः ॥ १४ ॥ मैत्री पवित्रपात्राय, मुदितामोदशालिने । कृपोपेक्षाप्रतीक्षाय, तुभ्यं योगात्मने नमः ॥१५॥
इति तृतीयप्रकाशः
म
मिथ्यादृशां युगान्तार्कः, सुदृशाममृताञ्जनम् । तिलकं तीर्थकृल्लक्ष्म्याः , पुरश्चक्रं तवैधते ॥ १ ॥ एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छिता । उच्चैरिन्द्रध्वजव्याजात्तर्जनी जम्भविद्विषा ॥ २ ॥ यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छियं पळूजवासिनीम् ॥ ३ ॥ दानशीलतपोभाव-भेदाद्धर्म चतुर्विधम् ।