________________
२०२
पद्धयां परिवारम्यतः ॥ ७ ॥ तथापि श्रद्धामुग्धोऽहं, नोपालभ्यः स्खलन्नपि । विश्रृङ्खलापि वाग्वृत्तिः, श्रद्दधानस्य शोभते ॥ ८ ॥ श्रीहेमचन्द्रप्रभवाद्वीतरागस्तवादितः । कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥ ९ ॥
इति प्रथमप्रकाशः
प्रियङ्ग-स्फटिक-स्वर्ण-पद्मरागाञ्जनप्रभः । प्रभोः तवाधौतशुचिः, कायः कमिव नाक्षिपेत् ॥ १॥ मन्दारदामवन्नित्य-मवासितसुगन्धिनि । तवाङ्ग भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ।।२।। दिव्यामृतरसास्वाद-पोषप्रतिहता इव । समाविशन्ति ते नाथ !, नाङ्ग रोगोरगव्रजाः ॥३॥ त्वय्यादर्शतलालीन-प्रतिमाप्रतिरूपके। क्षरत्स्वेदविलीनत्व-कथाऽपि वपुषः कुत: ? ॥ ४ ॥ न केवलं रागमुक्तं, वीतराग ! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् ॥ ५ ॥ जगद्विलक्षणं किं वा, तवान्यद्वक्तुमीश्महे ? । यदविस्रमबीभत्सं, शुभ्रंमांसमपि प्रभो ! ॥ ६ ॥ जलस्थलसमुदभूताः, सन्त्यज्य सुमनःस्रजः । तव नि:श्वाससौरभ्य-मनुयान्ति मधुव्रताः ।। ७ ॥ लोकोत्तरचमत्कारकरी तव भवस्थितिः । यतो नाहारनीहारौ, गोचरश्चर्मचक्षुषाम् ॥ ८ ॥
इति-द्वितियप्रकाश . सर्वाभिमुख्यतो नाथ ! तीर्थकृन्नामकर्मजात् । सर्वथा सम्मुखीनस्त्व-भानन्दयसि यत्प्रजाः ॥ १ ॥ यद्योजनप्रमाणेऽपि, धर्मदेशनसद्मनि । सम्मान्ति कोटिशस्तियग्नृदेवाः सपरिच्छदाः ॥२॥ तेषामेव स्वस्वभाषा-परिणाममनोहरम् । अप्येकरूपं वचनं, यत्ते धर्मावबोधकृत् ॥ ३ ॥ साग्रेऽपि योजनशते, पूर्वोत्पन्ना