________________
२०१
महं जाओ || १५ || जंपि नाह भुत्तं बहुसो देवत्तणं मए पत्तं । नय एरिसो मोओ जाओ जह दंसणे तुम्ह ॥ १६ ॥ ता पसिय पसिय सामिय सफलं महमिययदंसणं कुणसु । तिहुअण अन्भहिएणं सासयसिवसोक्खदाणेणं ॥ १७ ॥ इय विन्नत्तो सिरिवद्धमाण सुरअसुरखयरपमुद्देहिं । धावहि कम्ममलोहं नियबोहपयच्छणजलेणं ॥ १८ ॥ जइवि तुमं गयनेहो जइवि तुमं सयलमुक्कवावारो । तहवि तुमं चिय सरणं सामिय संसारभीयाणं ॥ १९ ॥ भयवं तुह गुणसवणे अं सुहं होइ भव्वसत्ताणं । कत्तो बंभपुरंदरहरि - हरहदंसणेणावि || २० ॥
कलिकाल सर्वज्ञ - श्री हेमचन्द्राचार्यविरचितम् श्रीवीतरागस्तोत्रम्
"
यः परात्मा परब्ज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः परस्तादामनन्ति यम् ॥ १ ॥ सर्वे येनोदमूल्यन्त, समूला: क्लेशपादपाः । मूर्ध्ना यस्मै नमस्यन्ति, सुरासुरनरेश्वराः ॥ २ ॥ प्रावर्त्तन्त यतो विद्याः, पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् || ३ || यस्मिन्विज्ञानमानन्दं ब्रह्म चैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥ ४ ॥ तेन स्यां नाथघाँस्तस्मै, स्पृहयेयं समाहितः । ततः कृतार्थो भूयासं, भवेयं तस्य किङ्करः || ५ || तत्र स्तोत्रेण कुर्यां च पवित्रां स्वां सरस्वतीम् । इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम् ||६|| काहं पशोरपि पशु-र्वीतरागस्तवः क च ? । उत्तितीर्षुररण्यानीं,