________________
२०८
प्राप्तोऽयं त्वत्पादाब्जरजःकणः || ६ || युगान्तरेषु भ्रान्तोऽस्मि, त्वद्दर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वद्दर्शनमजायत ॥ ७ ॥ बहुदोषो दोषहीनात्त्वत्तः कलिरशोभत । विषयुक्तो विषहरात्फणीन्द्र इव रत्नतः ॥ ८॥
। इति नवमप्रकाशः ।
मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि, प्रसीद भगवन् ! मयि ॥ १ ॥ निरीक्षितं रूपलक्ष्मीं, सहस्राक्षोऽपि न क्षमः । स्वामिन् ! सहस्रजिह्वोऽपि, शक्तो वक्तुं न ते गुणान् ॥ २ ॥ संशयान् नाथ ! हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपि किं कोऽपि गुणः स्तुत्योऽस्ति वस्तुत: ? ॥ ३ ॥ इदं विरुद्ध श्रद्धत्तां, कथमश्रद्दधानकः ? | आनन्दसुखसक्तिश्व, विरक्तिश्च समं त्वयि ॥ ४ ॥ नाथेयं घट्यमानापि दुर्घटा घटतां कथम् ? । उपेक्षा सर्वसत्त्वेषु परमा चोपकारिता ॥ ५ ॥ द्वयं विरुद्ध ं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्तिता ॥ ६ ॥ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ॥ ७ ॥ शमोऽ तोऽद्भुतं रूपं सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः ॥ ८॥
"
। इति दशमप्रकाशः ।
निघ्नन्परीषहचमू - मुपसर्गान्प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं, महतां कापि वैदुषी ॥ १ ॥ अरक्को भुक्तवान्मुक्तिमद्विष्टो हतवान्द्विषः । अहो ! महात्मनां कोऽपि, महिमा लोकदुर्लभः ॥२॥ सर्वथा निर्जिगीषेण, भीतभीतेन चागसः । त्वया जगत्त्रयं जिग्ये, महतां कापि चातुरी ॥ ३ ॥ दत्तं न किचित्कस्मैचिन्नात्तं किनि